This page has not been fully proofread.

२१६
 
कामसूत्रम् ।
 
१९ आदितोऽध्यायः ]
 
दृष्ट्वेति । एतानिति आकारान् इङ्गितानि चेति लिङ्गविपरिणामेन यो-
ज्यम् । भावसंयुक्तानिति अनुरागसंगतान् । संप्रयोगार्थमिति । संप्रयोगो-
ऽत्र समागमलक्षणो गान्धर्वो ज्ञेयः । योगानिति अभियोगान् ।
त्रिविधा कन्या – वाला तरुणी प्रौढा चेति । यथाक्रममुपक्रममाह -
वालक्रीडनकैर्वाला कलाभिर्यौवने स्थिता ।
वैत्सला चापि संग्राह्या विश्वासयजनसंग्रहात् ॥
 
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽविकरणे
बालोपक्रमा इङ्गिताकारसूचनं च तृतीयोऽध्यायः ।
बालक्रीडनकैरिति । कलाभिरनुरागिणी । वत्सला प्रौढा । यस्तस्या
विश्वास्यस्तदुपग्रहात्स्वीकर्तव्या ॥ इङ्गिताकारसूचनं सप्तविंशं प्रकरणम् ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धामनाविरहकात रेण
गुरुदत्तेन्द्रपादाभिधानेन यशोघरेणैकत्रकृतसूत्रभाष्यायां कन्यासंप्रयुक्तके
तृतीयेऽधिकरणे बालोपक्रमा इगिताकारसूचन च तृतीयोऽध्यायः ।
 
चतुर्थोऽध्यायः ।
 
शास्त्रकार एव प्रकरणसंबन्धमाह -
 
An
 
दर्शितङ्गितकारां कन्यामुपायतोऽभियुञ्जीत ॥
दर्शितेङ्गिताकारामिति । उपायत इति उपाया एवाभियोगाः । अ-
भियुज्यते तैरिति । ते चासहायस्येत्येक पुरुषाभियोगा उच्यन्ते । ससहा-
यस्यापि केचित्संभवन्ति । ते द्विविधाः ~~-बाह्या आभ्यन्तराश्चेति ।
 
तत्र पूर्वानधिकृत्याह-
द्यूते क्रीडनकेपु च विवेदमानः साकारमस्याः पाणिमवलम्वेत ।
द्यूत इति । विवदमानो वाक्कलहं कुर्वन् । साकारं पाणिमवलम्बेत य-
थावगच्छेत् 'अहमनेनोढा' इति ।
 
यँथोक्तं च स्पृष्टकादिकमालिङ्गनविधिं विदध्यात् ॥
 
१. 'वालाम्'. २. 'स्थिताम्'. ३. 'वत्सला चापि गृह्णीयात् '. ४. 'संश्रयात'.
५. 'उपयातः ६. 'विवदमानाया: '. ७. 'यथोक्तं स्पृष्टका दिम्'.