This page has not been fully proofread.

३ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
२१५
 
तु
 
परिहरति । कर्णपत्रमङ्गुलीयकं सजं वा तेन॑ याचिता सधीरमेव
गात्रादेवतार्य सख्या हस्ते ददाति । तेन च दत्तं नित्यं धारयति ।
अन्यवरसंकथासु विषण्णा भवति । तत्पक्षकैश्च सह न संसृज्यत इति ॥
संमुखं न वीक्षत इति लज्जया । पराङ्मुखी तं तु नायकम् । चीक्षितेति
नायकेन तु व्रीडां दर्शयति अधोमुखी भूत्वा । रुच्यमतिमनोहरम् । आ-
त्मनोऽङ्गं स्तनबाहुमूलादि । अपदेशेनेति प्रावरणव्याजेन । प्रमत्तमनव-
हितम् । प्रच्छन्नमेकाकिनम् । अतिक्रान्तं दूरगतम् । पृष्टा यत्किंचिदिति
नायकेन । सस्मितमित्यादिनानुरागोन्मुखता ब्रीडा चाख्यायते । तत्समीप
इति नायकसमीपे । परिजनमित्यात्मीयम् । सवदनविकारमिति सभ्रूमङ्ग-
कटाक्षम् । तं देशमिति यत्र स्थिता तं पश्यति । तत्रैव यत्किचिदृष्ट्वा
विहसितं करोति । तिर्यक्पश्यन्ती । तत्र कथामनुबध्नाति सखीं प्रोत्साद्य ।
वालस्येति लाडीकस्य खाङ्कमारोपितस्य । चुम्बनावगूहनं च संक्रान्त-
कम् । परिचारिकायाः स्वस्यास्तिलकं रचयति नायकं पश्यन्ती । परि-
जनानवष्टभ्येति परिजनकोडापाश्रया । तास्ताश्चेति केशविरचनाङ्गवलनवि-
जृम्मिकादिकाः । तन्मित्रेषु नायकमित्रेषु । विश्वसिति स्वभावं प्रकटयति ।
पैंचने चैषां बहुमानं कुरुते । तदनुरूपानुष्ठानात् । तत्परिचारकैरिति
नायकपरिचारकैः । एतानिति नायकपरिचारकान् । तेप्विति परिचारकेपु
कस्यचिदन्यस्य कथयत्सु । तां संकथाम् । धात्रेयिकया चोदिता प्रवि-
शाव इति । उदवसितं गृहम् । तामन्तरा कृत्वेति धात्रेयिकां व्यवधानी -
कृत्य । नायकेन सह द्यूतादि नियोजयितुमिच्छति । दर्शनपथमिति ना-
यकस्य । सघीरमवतार्य कि ग्रहीष्यतीति । सख्या हस्त इति लज्जया न
तद्धस्ते ददाति । नित्यं धारयति श्लाघ्यमाना । तत्पक्षैरिति अन्यवरपक्षैः ।
प्रकरणद्वयमुपसंहरन्नाह -
भवतश्चात्र श्लोकौ -
 
दृद्वैतान्भावसंयुक्तानाकारानिङ्गितानि च ।
कन्यायाः संप्रयोगार्थं तांस्तान्योगान्विचिन्तयेत् ॥
 
१. 'नायकेन'. २. 'अवमुच्य'. ३. 'तत्पक्षैथन'. ४. 'वचन चैपा बहुमान्य करोत.