This page has not been fully proofread.


 
३ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
२१३
 
च्छन्ने स्वयं प्रवेष्टुं सामर्थ्य तत्र दानम् । कुङ्कुमादीनामप्रकाश्यत्वात् ।
प्रकाशद्रव्याणा कन्दुकादीनां प्रकाशदानम् । तैरेव कल्पनीयत्वात् । स-
र्वाभिप्रायसंवर्धकमिति सर्वामिलापपूर्वकं यजन्मन ईप्सितं तत्तत्संपादय-
तीति । दीयमानं च यथा प्रच्छन्नमर्थयेत् । किं निमित्तमित्याह-वीक्षणे
चेति । दर्शननिमित्तम् । प्रच्छन्ने दृश्यमाना निशङ्कमुपचर्यते । तथा कथा-
योजनमिति । अन्यमुखेन संवर्धनार्थं च कथा योजयेत् । प्रच्छन्नस्य तु
कारणमुमयम् । तत्रात्मनो गुरुजनाद्भयं ख्यापयेत् तव पितरौ रुप्यत
इति । अन्येन स्पृहणीयत्वमिति । अन्योऽप्येतद्दृष्ट्वा स्पृहयति । ततश्च
गृह्णीयादिति । अन्वर्थाभिः स्वयं प्रयुक्ताभिः शकुन्तलाराजदारिकाक-
थाभिः । चित्तहारिणीभिरन्यामिरनुरागयुक्ताभिः । विस्मयेषु प्रसह्यमाना-
मिति आश्चर्येषु प्रसक्ति यान्तीम् । कलासु पत्रच्छेद्यादिपु । गीतप्रिया-
मिति । कलान्तर्गतमपि पुनर्गीतग्रहणं प्राधान्यार्थम् । प्रायेण हि गीत-
प्रियो लोकः । आश्वयुज्यां कोजागरे । अष्टमीचन्द्रके मार्गशीर्षबहुलाप्ट-
म्याम् । तत्र हि दिनमुपोप्योगते चन्द्रमसि भुज्यते । कौमुद्यामिति सा-
मान्योपादानेऽपि यत्र कन्याभिज्योंत्सामण्डलकपूजा [क्रियते] सात्र द्र-
टव्या । सा कार्तिक्या भवति । उत्सवेषु इन्द्रमहादिपु । यात्राया देव-
तायाः । ग्रहणे सूर्याचन्द्रमसोः । गृहाचारे गृहमोगतायाम् । आपीडादि-
मिर्विस्मापयेदिति संबन्धः । नो चेद्दोषकराणीति तद्दाने यद्यात्मनोऽपायं
न पश्येत । अन्यपुरुषविशेषाभिज्ञतयेति अन्येभ्यः पुरुषेभ्यो मम
विशेषं धात्रेयिका जानात्विति । पुरुषप्रवृत्ताविति जातसंप्रयोगाम् । अ
न्यथा कथं विशेषमेवेति । तद्ब्रहणोपदेशेनेति धात्रेयिकोपदेशद्वारेण । र -
तिकौशलमिति तज्ज्ञताम् । अनुपहतदर्शन इति । अस्योपाय उदारवेष-
त्वम् । तथाभूतं तं च दृष्ट्वा भावं कुर्वतीमनुरागं चेतसि जनयन्तीमिङ्किता-
कारैलिंङ्गैर्विद्यात् । किमित्यनुपहतदर्शनः स्यादित्याह—युवतय इतिजा -
तयौवनाः । संसृष्टं जातपरिचयम् । अभीक्ष्णदर्शनं सदा दृश्यमानम् ।
 
१. 'न'. २. 'आगताया: ३. पुरुषप्रवृत्ताभिजातसप्रयोगाम् .