2023-02-19 13:59:20 by ambuda-bot
This page has not been fully proofread.
२१२
कामसूत्रम् ।
१८ आदितोऽध्यायः]
प्रीयमाणा स्त्रिद्यमाना । विदिताकारापीति । नायको नायिकामिच्छतीति
ज्ञाताभिप्रायापि । अप्रत्यादिशन्ती तमिति नायकमप्रत्याचक्षाणा । तां
चेति नायिकां भयलज्जाव्यपनयनेन प्रतार्य योजयितुं शक्नुयात् । अनभि-
हिता प्रत्याचार्यकमिति । संयोजने त्वमाचार्या भवेत्येतत्प्रति नायकेनानु-
कापि सती योजयितुं शक्नुयादिति योज्यम् । अविदिताकारापीति ।
यद्यपि नायक एनामिच्छतीति न ज्ञातवती तथापि गुणानेव प्रकाशयेत् ।
अनुरागादिति नायकविषये धात्रेयिकानुरागात् । यत्र यत्र चेति । प्रता-
रणप्रकारे । तत्तद्नुप्रविश्येति विज्ञाय । साधयेदिति संपादयेत् । क्रीडन-
द्रव्याणि वक्ष्यति । अन्यासामिति कन्यानाम् । विरलशः, न बाहुल्येन ।
अयत्नेनेति संपादनसामर्थ्य दर्शयति । क्रीडनकद्रव्याण्याह–कन्दुक
मिति । अल्पकालान्तरितमिति कौतुकप्रबन्धाभ्युपगमार्थम् । अन्यदन्यत्
भक्तीनां वैसादृश्यात् । दारु काष्ठम् । गवलं शृङ्गम् । दुहितृकाः पु-
त्रिकाः । संदर्शयेदित्येव । मधूच्छिष्टं सिक्थकम् । महानसिकस्येति ।
महानसविषयं कर्म महानसिकमित्युक्तम् । भक्तग्रहणमुपलक्षणार्थम् । भ
क्तादिपाकार्थस्य कर्मणस्तत्तच्छास्त्रोकेन विधिना दर्शनम् । स्त्रीणां प्रधा-
नविद्यात्वात् । संयुक्तयोरिति एककाष्ठघटितयोः स्त्रीपुंसयोर्मेंद्रकयोरविप्र-
योगार्थं दर्शनम् । अजैडकानां काष्ठमयानाम् । उपलक्षणार्थत्वाद्गवाश्वा-
दीनां च । मृदा वंशविदलैः काठैर्वा विनिर्मितानां देवकुलानां देवगृहाणां
च । शुकादिपञ्जराणां मृदादिनिर्मितानाम् । तत्र मदनसारिका पठति ।
जलमाजनानां शङ्खशुक्तिखण्डानां मृत्काष्ठशिलानिर्मितानाम् । विचित्राणां
वर्णिकया आकृतियुक्तानां संस्थानवताम् । यन्त्रिकाणामिति यन्त्रमातृ-
कोक्तानाम् । वीणिका स्वल्पवीणा पिण्डोलिका यत्र दुहितृकाः स्था
प्यन्ते । पटोलिका यत्र प्रसाधनं विधीयते । रैयामवर्णकं राजावर्तचूर्णं
चित्रकर्मोपयोगि । पत्राणि ताम्बूलस्य । कालयुक्तानामिति । यस्मि-
न्काले येनार्थिनी तत्र तस्य दर्शनमित्यर्थः । शक्तिविषय इति यस्मिन्प्र-
१. 'यदापि '. २. 'उपरमार्थम्'. ३. 'श्यामवर्णिकं
>