This page has not been fully proofread.

२ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
एवम्-
कामं च यौवने ॥ इति ।
तदोचितत्वात् ।
स्थाविरे धर्म मोक्षं च ॥
 
स्थाविरे धर्ममोक्षावनुभूतविपयत्वात् । मोक्षग्रहणं परमतापेक्षम् ।
ज्ञानवादिनां चतुर्वर्ग: पुरुषार्थः । अस्मिन्नेव काले तैरप्याध्यात्मिकं चि-
न्त्यमिति । ननु त्रिवर्गस्य नियतकालत्वादन्योन्यानुवन्धो नास्ति, तत-
वासेवनप्रसङ्ग इति नायं नियमः । अनुवद्धत्वाभावे निरनुबद्धमप्युक्तम् ।
अथवा यथाकालमेहन्यहनि सेवा प्रतिषेधपरत्वाद्धर्मादिनियमस्य । यथा-
कालं धर्मादिपु सेव्यमानेषु यद्यनुषङ्गादितरानुवन्धः, भवतु । न दोपाय ।
 
अनित्यत्वादायुपो यथोपपादं वा सेवेत ॥
 
अनित्यत्वादिति वर्पशतादर्वाग्विनाशदर्शनात् । यथोपपाढमिति य-
द्यदोपपद्यते तदा सेवेत । बाल्येऽर्थम्, धर्ममपि । यौवने कामम्, धर्मा-
र्थावपि । स्थाविरे धर्मम्, अर्थकामानुष्ठानसामर्थ्य चेतावपीति । अन्य-
। थैकसेवायामसमग्रः पुरुषार्थ: स्यात् । सेवेतेति पुनर्वचनं पूर्वस्मात्पक्षात्पक्षा-
कृ॑ तरा[द]र्थम् । अन्यस्मिन्पक्षे विद्याग्रहणार्थस्य सेवायाः कालत्रयेऽप्यसं-
प्रज्ञवान्नियमयति-
-
 
ब्रह्मचर्यमेव त्वी विद्याग्रहणात् ॥
 
यावद्विद्या न गृह्यते तावत्कामं न सेवेत । अन्यथा सघर्मः, तद्ग्रहण-
विघातः, विद्यार्थलाभामावश्च । भूम्याद्यर्जने तु न नियमः । अन्ये तु
विद्याग्रहणवर्ज प्रायेण भूम्याद्यर्जनं न संभवति, अतस्रयलिंशददाश्च-
। त्वारश्च मासा इति प्रत्येकं वयो विभज्य योजयन्ति । अस्लिन्विभागे
पोडशवर्षादूर्ध्वे कामस्य भावात्, वाल्येऽपि धर्मार्थकामान्सेवेतेत्युक्तमनु-
ठानभवबोधोऽपि ।
 
१. 'अर्थ काम च' पा०. २. 'प्रत्यहन्यासेवा' पा०. ३. 'दीपायेयाह' पा०. ४.
'पदात्पक्षान्तरादर्थम्'; 'पक्षात्पक्षान्तरादर्घम्' पा०. ५. 'विद्यामहणार्धसेवाया बाल-
त्रयेऽपि संभवात्' पा०. ६. 'वा' पा०. ७. 'विभज्यते' पा०. ८. 'अयोधोऽपि'
इत्यादि किचित्सदिग्धम्,