2023-02-19 13:59:19 by ambuda-bot
This page has not been fully proofread.
२०८
कामसूत्रम् ।
१८ आदितोऽध्यायः]
मात्रा च पित्रा च वियुक्तः परिभूतकल्पो धनोत्कर्षादलभ्यां मा
तुलदुहितरमन्यस्मै वा पूर्वदत्तां साधयेत् । अन्यामपि वाह्यां स्पृहयेत् ।
वालायामेवं सति धर्माधिगमे संवननं श्लाघ्यमिति घोटकमुखः ॥
धनहीनस्त्वभिजनादिगुणयुक्तोऽपि दरिद्रः कन्यां न लभते । मध्यस्थ-
गुणो हीनापदेशो वेति । मध्यस्था रूपशीलादयो गुणा अभिजनः प्रधानं
तदभावाद्धीनव्यपदेशः । सघनो वा प्रातिवेश्य इति खगृहसमीपवासी
सीमासंबन्धेन कलहादिजनकत्वात् धनगर्वान्न लभते । मातापित्रोर्भ्रातृपु
च सत्सु परतन्नोऽन्यप्रधानः सेघनोऽपि न लभते । बालवृत्तिरुचितम-
वेशो वेति । यो लाडीकवदृश्यते सोऽनिषिद्धगृहप्रवेशोऽपि परिभवान्न
लमते । यदि न वरयेत्कथमधिगच्छेदित्याह—बाल्यादिति । अनुरज-
येत् । अनुरक्ता हि स्वयमेव गान्धर्वेण विवाहेन पाणिं ग्राहयति । यतः
'स्वयं संयोगे गान्धर्वः' इति । तस्मादनुरञ्जनार्थं वालायामुपक्रमादनेक-
प्रकारा उच्यन्ते । यत्र च देशे प्रायेणैवंविधा वृत्तिस्तामधिकृत्याह-
तथायुक्तश्चेति । धनहीनत्वादियुक्तः । दक्षिणापथ इति । तत्र हि मातुल-
दुहिता परिणीयते । वियुक्तः पित्रोर्मृतत्वात्परिभूतकल्पो मातुलकुलयुक्तः ।
अन्यस्मै वा पूर्वदत्तामदत्तां वा । अन्यामपि वाह्यामिति । या मातुलदु-
हिता न भवति पित्रोः संबन्धबाया तामपि स्पृहयेत् । तत्र कर्तुः क्रि-
यया आप्तुमिष्टतमत्वेन विवक्षित्वात्कर्मत्वम् । अनेनान्यस्मिन्नपि देशे
विधिरयमिति दर्शयति । बाल्यात्प्रभृति सति धर्माधिगमे बालायां धर्मार्थ-
मधिगमे संदर्शनालापलक्षणे सति संवननं वशीकरणमनुरञ्जनलक्षणं ला-
घ्यम् । अन्यथा दर्शनात्कथं संवननं स्यात् । धर्म्याश्च गान्धर्वा विवाहाः ।
यथोक्तम् – 'तत्र पूर्वे धर्म्याश्चत्वारः । पढित्येके' ।
उपक्रमिवत्वाद्विविधो वालो युवा च । तत्र पूर्वमधिकृत्यानुरञ्जनमाह -
तया सह पुष्पावचयं ग्रथनं गृहकं दुहितकाक्रीडायोजनं भक्त-
१. 'संचरणं'. २. 'सधर्मोऽपि'. ३. 'विवाहेन' इति पुस्तकान्तरे नास्त्रि. ४, उप-
क्रमाद्वा'. ५. 'तँ'. ६. 'धर्माथ'. ७. 'दुहितृकापुत्रिका'; 'गृहदुहितृकक्रीडा'; 'गृहक-
न्दुकं दुहितृकापट्टिका'; 'गृहकन्दुकपुत्रिका'. ८. 'भक्षपानकरणं'; 'भक्कं वा पाककरणं.