This page has not been fully proofread.

२०६
 
कामसूत्रम् ।
 
१७ आदितोऽध्यायः]
 
त्नीभ्यः साध्वसमवच्छिन्द्यात् । यद्यघिविन्ना स्यात् । कालेन च गच्छता
मुक्तकन्याभावां युवतीमनुद्वेजयन्नुपक्रमेत् । तदाप्ययमेव क्रमः । स स्फुटः
कर्तव्यः ।
 
उक्तमुपसंहरन्नाह -
भवन्ति चात्र श्लोका:-
एवं चित्तानुगो वालामुपायेन प्रसाधयेत् ।
तथास्य सानुरक्ता च विन्धा प्रजायते ॥
 

 
एवमिति । चित्तानुग इति चित्ताभिप्रायं बुद्धा । उपायेनेति युक्त्या ।

प्रसाधयेद्विश्वासयेत् । किमेवं स्यादित्याह —— तथेति । सुविखन्धा सती
अनुरक्ता प्रजायत इति योज्यम् ।
तत्रापि विशेषमाह -
 
नात्यन्तमानुलोम्येन न चातिप्रतिलोम्यतः ।
 
सिद्धिं गच्छति कन्यास तस्मान्मध्येन साधयेत् ॥
नात्यन्तमिति । सिद्धिं सुखम् । तत्र तदानुलोम्येन प्रवृत्तौ स एवो-
तरकालमपि मार्गः स्यात् । ततश्चास्य खेच्छौविघातात्तद्विषयासिद्धिः ।
प्रातिलोम्येनातिप्रवृत्तौ तु तदानीमेव विरक्तत्वात्कथं तद्विषया सिद्धिः ।
तस्मान्मध्येनोपायेन साधयेत् ।
 
विसम्मणं किंफलमित्याह -
 

 
आत्मन: प्रीतिजननं योषितां मानवर्धनम् ।
 
कन्याविस्रम्भणं वेत्ति यः स तासां प्रियो भवेत् ॥
 
आत्मन इति । वर्धनमिति । उपचारस्य तथाविधत्वात् । कन्याना-
मिति वक्तव्ये योषिग्रहणं प्रथमसमागमे सर्वविषयमिदमिति दर्शनार्थम् ।
तत्परिज्ञानर्फेलमाह – प्रियो भवेदिति ।
 
-
 
अतिलज्जान्वितेत्येयं यस्तु कन्यामुपेक्षते ।
सोऽनभिप्रायवेदीति पशुवत्परिभूयते ॥
 
१. 'सानुरागा च विसव्वा चैव'. २. 'प्रतिलोमतः'. ३. 'स्वेच्छाविधौ तद्विपया'.
४. 'फलमिल्याइ'.