This page has not been fully proofread.

दि
 
के'
 
AD
 
A
 
La
 
Tai
 
1
 
पुरः

 
वि
 
I
 
२ अध्यायः] - ३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
हस्तयोजनविधिमाह-~-
ऊर्वोथोपरि विन्यस्तहस्तः संवाहनक्रियायां सिद्धायां क्रमेणो-
रुमूलमपि संवाहयेत् । निवारिते संवाहने को दोप इत्याकुलयेदे-
नाम् । तेच स्थिरीकुर्यात् । तत्र सिद्धाया गुहादेशाभिमर्शनं रशना-
वियोजनं नीबीविसनं बसनपरिवर्तनमुरुमूलसंवाहनं च । एते
चास्योन्यापदेशाः । युक्तयत्रां रञ्जयेत् । नै त्वकाले व्रतखण्डनम्
अनुशिष्याच्च । आत्मानुरागं दर्शयेत् । मनोरथांच पूर्वकालिकान-
नुवर्णयेत् । आयत्यां च तदानुकूल्येन प्रवृत्ति प्रतिजानीयात् ।
सपत्नीभ्यय साध्वसमवच्छिन्द्यात् । कालेन च क्रमेण विमुक्तक-
न्याभावामनुद्वेजयशुपक्रमेत । इति कन्याविसम्भणम् ॥
 
ऊर्वोरिति । तत्रायं क्रमः – प्रथमं पूर्वकायस्य संवाहनक्रिया । तस्या
सिद्धायामूर्वोपरि यस्तहस्त ऊरू संवाहयेत् । क्रमेणोरुमूलमिति ।
तत्रेत्यूरुमूले । आकुलयेत् चुम्बनाच्छुरितकैः । तच्चेति । यत्पूर्वाभ्युपगतं
संवाहनं तच स्थिरीकुर्यात् क्षान्त्यर्थम् । तत्रेत्यूरुमूलसंवाहने सिद्धाया
गुह्यदेशाभिमर्शनम् । संवाहनव्यपदेशेन रसनावियोजनाद्यपि कुर्यात् ।
पुनरूरुमूले संवाहनग्रहणमपरित्यागार्थम् । गुह्यस्पर्शहेतुत्वात् । एत इति
गुह्यस्पर्शनादयो व्यापाराः । अस्येति नायकस्य । अन्यापदेशा इति
त्रिरात्रादर्वागन्यमपदिश्य कर्तव्याः । न तु व्रतखण्डनमधिकृत्येत्यर्थः ।
युक्तयन्त्रां च चतुर्थिकांहोमादूर्ध्वं रञ्जयेदिति । रञ्जनमनुद्वेज्य सुखोत्पाद-
नम् । अनुशिष्यात् चातुःषष्टिकान्योगान् शिक्षयेत् । आत्मानुरागं च
दर्शयेत् इज्ञिताकाराभ्याम् । मनोरथान् पूर्वकालीनाननुवर्णयेत् ये ये त-
स्यामधरपानादयश्चिन्तिताः । आयत्यामिति । अनागतकाले तदानुकूल्येन
प्रवृत्ति प्रतिजानीयात् 'यदाह भवती तन्मया विधातव्यम्' इति । सप-
२०५
 
१. 'विन्यस्तपाणिः . २. 'तत्र'. ३. 'सिद्धाय'. ४. 'विमोचनम्'. ५. 'अन्या-
पदेशेन'; 'अन्यापदेशात्'. ६. 'न त्वकाले युक्तयन्त्रा रञ्जयेत्,' ७. 'न त्वकाले
व्रतखण्डनम्' इति पुस्तकान्तरे नास्ति. ८. 'कालेन च' इति पुस्तकान्तरे नास्ति.
९. 'चुम्बयेच्छुरितकैः .