This page has not been fully proofread.

२०४
 
कामसूत्रम् ।
 
१७ आदितोऽध्यायः]
 
याचितं नायकेन । निदध्यात्स्थापयेत् । तथा युक्तामिति निदधतीमुत्तरीये
वा निवनतीम् । आच्छुरितेन पूर्वोक्तन । स्तनमुकुलयोरिति मुकुलग्रहण-
मतिस्पर्शनिवृत्त्यर्थम् । बालत्वात् । वार्यमाणश्चेति । स्पर्शनस्थित्या व्य-
वस्थया परिष्वञ्जयेत् । स्थितिमाह —त्वमपीति । आ नाभिप्रदेशादिति
नामिप्रदेशं यावत् । प्रसार्य निवर्तयेदिति वीप्साथै क्षान्त्यर्थम् । प्रसार्य
प्रसार्येत्यर्थः । क्रमेणेति । न सहसोत्सङ्गमारोपयेत् । अधिकमधिकमिति
नखदशनपदैरप्रतिपद्यमानामधिकोपक्रमं भीषयेत् ।
 
कथमित्याह -
 
अहं खलु तव दन्तपदान्यधरे करिष्यामि स्तनपृष्ठे च नखप-
दम् । आत्मनश्च स्वयं कृत्वा त्वया कृतमिति ते सखीजनस्य पुरतः
कथयिष्यामि । सा त्वं किमत्र वक्ष्यसीति वालविभीपिकैर्वालप्रत्या-
यनैश्च शनैरेनां प्रतारयेत् । द्वितीयस्यां तृतीयस्यां च रात्रौ किंचि-
दधिकं विस्रम्भितां हस्तेन योजयेत् ॥
 
अहमिति । आत्मनश्च स्वयं कृत्वा दन्तपदं नखपदं च । किमसौ
प्रतिपत्स्यते सखीजनो नवोढादुश्चेष्टितादन्यत्रेत्येतद्वालमीषितम् । अस्मि-
न्वचनानुष्ठाने तु नाहमेवं करिष्यामीति बालप्रत्यायनमर्थोक्तम् । शनै-
रेनां प्रॆतारयेत् कार्याभिमुखीं कुर्यादिति । एतत्प्रथमायां रात्रौ विलम्भ-
णम् । तस्मात्किंचिदधिकं द्वितीयस्यां रात्रौ तृतीयस्यां च । हस्तेन
योजयेदिति कैक्षोरुजघनेषु हस्तस्पर्शसंबन्धिनीं कुर्यात् ।
 
हस्तेन योजनोपायमाह -
 
सर्वाङ्गिकं चुम्बनमुपक्रमेत ॥
 
सर्वाङ्गिकमिति । ललाटनयनादिषु विचुम्व्यमाना पर्याकुला सर्वम-
भ्युपगच्छति ।
 
१. 'परिष्वजेत्'. २. 'अहं ते खल्लु'. ३. 'कृतमिति सखीजनस्य ते वक्ष्यामि .
४. 'किमत्र प्रतिपत्स्यत इति बालविभोपितैः . ५. 'प्रसारयेत्'. ६. 'ऊरुजघनेपु'.