This page has not been fully proofread.

३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
२ अध्याय:]
 
मपि ब्रूयात् । तत्र तामंपनुद्य
 
तु
 
मासीत । निर्वध्यमाना तु नोहमेवं ब्रवीमीत्यव्यक्ताक्षरमनवसितायें
वचनं ब्रूयात् । नायकं च विहसन्ती कदाचित्कटाक्षैः प्रेक्षेत ।
इत्यालापयोजनम् ॥
 
संस्तुता चेदिति । सखीमिति सखीनां मध्ये यानुकूला । विसन्धो-
भयत इति द्वयोरपि विसधा । विदितपूर्ववृत्तान्तत्वात् । तामन्तरा कृत्वा
व्यवघाय कथायोजनम् । नायकस्य तु पूर्ववृत्तां कथां योजयेत् । किमह-
मस्या रुचितो न वेत्यर्थः । तस्मिन्निति । यदैव तस्यां क्रीडायां परिचयो-
ऽभूत्तत एव प्रभृति रुचितोऽसीति सख्या कथने क्रियमाणेऽधोमुखी
लज्जया विहसेत् । एवमिति तदितिख्यापनार्थम् । नायिका तां चेति
सखीम् । अतिवादिनीमित्यनुरागातिशयं कथयन्तीमघिक्षिपेत् । विव-
देख तया सह कैलहयेत् । सा विति सखी । अनुक्तमपि नायिकया
ब्रूयात् । अद्यैव यदि पाणि गृह्णासि साधु भवतीति । तत्रेत्यनुरक्तकथने ।
अनवसितार्थमक्षराणामस्पष्टत्वाट्र्यात् । मुग्धत्वख्यापनार्थम् । नायकं च
विहसन्ती कदाचिदन्तरान्तरा परिचयवशात्कटाक्षेणोन्मुखीव प्रेक्षेत । अ-
नुरागातिशयख्यापनार्थम् ।
 
२०३
 
प्रतिवचनार्थमभ्यर्थ्यमाना तूष्णी-
एवं जातपरिचया चानिर्वदन्ती तत्समीपे याचितं ताम्बूलं
विलेपनं सजं निदध्यात् । उत्तरीये वास्य निवनीयात् । तथा यु-
क्तामाच्छुरितकेन स्तनमुकुलयोरुपरि स्पृशेत् । वार्यमाणश्च त्वमपि
मां परिष्वजस्व ततो नैवमाचरिष्यामीति स्थित्या 'पॅरिष्वञ्जयेत् ।
"स्वं च हस्तमा नाभिदेशात्मसार्य निर्वर्तयेत् । क्रमेण चैनामुत्सद्ग-
मारोप्याधिकमधिकमुपक्रमेत् । अप्रतिपद्यमानां च भीषयेत् ॥
एवमालिङ्गनताम्बूलचुम्वनालापैर्जातपरिचया । अनिर्वदन्ती गृहाणेति ।
 
१. 'अनूय'; 'अपरुध्यमाना'. २. 'नैवाहमेवं'. ३. 'पूर्ववृत्तान्त'. ४. 'किमह
मरुच्यो रुचितो न वेत्यर्थः'. ५. 'कलहयेद्विवदेच. ६. 'नायिकाया: '. ७. 'सखी-
याचितं'. ८. 'तदायुका'. ९. 'स्पर्शयेत. १०. 'परिष्वजेत्'. ११. 'परिध्वजमानायाः
खहस्तं'. १२. 'प्रसार्य प्रसार्य.