2023-02-19 13:59:18 by ambuda-bot
This page has not been fully proofread.
कामसूत्रम् ।
१७ आदितोऽध्यायः]
अत्र कन्याया आलापयोजनोपायमाह -
g
निर्वध्यमाना तु शिरःकम्पेन मैतिवचनानि योजयेत् । कैलहे
तु न शिरः कम्पयेत् ॥
निर्वध्यमानेति । शिरःकम्पेनेति । किमिदं जानासीति पृष्टा जाना-
मीत्यूर्ध्वाधः शिरश्चालनेन, न जानामीति तिर्यक् शिरश्चालनेन योजयेत् ।
धाष्टर्चपरिहारार्थम् । कलहे त्विति स्यामवदन्त्यां यदि कदाचिदर्थयुक्त्या
प्रेरणप्रतिप्रेरणादिलक्षणो वाक्कलहो जातस्तस्मिन् किं कुपितासि नेति पृष्टा
न शिरः कम्पयेत् । कोपख्यापनार्थम् ।
अकलहे तु स्नेहजिज्ञासायामालापयोजनमाह -
२०२
इच्छसि मां नेच्छसि वा किं तेऽहं रुचितो न रुचितो वेति
पृष्टा चिरं स्थित्वा निर्वध्यमाना तदानुकूल्येन शिरः कम्पयेत् ।
प्रपञ्चयमाना तु विवदेत् ॥
इच्छसि मां नेच्छसि वेति वार्तमानिकः प्रश्नः । किं तव रुचितोऽह-
मरुचितो वेति परिणयात्पूर्वकालिकः प्रश्नः । चिरं स्थित्वेति संकटः प्रश्नः ।
यदि पूर्वपक्षमाश्रयेयं तदा धाष्टर्चे लाघवं च, इतरं चेत्तदा नैष्ठुर्यमिति
निर्वध्यमाना नायकेन संकटप्रश्ने किमनुष्ठास्यतीति । तस्या निर्बंध्यमा-
नाया उभयपक्षाश्रयणमेव युक्तमित्याह - तदानुकूल्येनेति । पूर्वपक्षो-
तरपक्षानुकूल्येनोमयथापि शिरः कम्पयेदित्यर्थः । प्रपञ्चयमाना त्विति अ-
निश्चितार्थप्रकाशनान्नायकेन प्रतार्यमाणा विवदेत् । कोपख्यापनार्थं वि-
रुद्धं वदेत् न मे रुचितोऽसि नेच्छामि त्वामिति ।
-
यदि पूर्वपरिचिता तदालापयोजने विधिमाह -
संस्तुता चेत्सखीमनुकूलानुभयतोऽपि विस्रब्धां तामन्तरा कृ-
त्वा कथां योजयेत् । तस्मिन्नधोमुखी विहसेत् । तां चातिवादिनी-
मैघिक्षिपेद्विवदेच्च । सा तु परिहासार्थमिदमनयोक्तमिति चानुक्त-
१. 'आलापोपायमाह'. २. 'प्रतिवचनं'. ३. 'कलहेन च'. ४. 'अस्यामवस्थायां'
५. 'अपनुदेत'. ६. 'परिहासात्सर्वमिदं'.