This page has not been fully proofread.

i
 
1
 
+
 
२ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
२०१
 
बदनेन ताम्बूलदानमिति खेन मुखेन । चुम्बनक्षन्तेरभिप्रेतत्वात् ।
तदप्रतिपद्यमानामिति ताम्बूलमगृहतीम् । सान्त्वनवाक्यैः प्रियाभिधा-
विभिः । शपथैरिति मच्छरीरेण शप्तासीति । प्रतियाचितैस्त्वमेतन्मे दे -
हीति । पादपतनेन वा अन्त्यावस्थायां ग्राहयेत् । यतः स्त्रिया ब्रीडा-
त्याजने कोषापनयने च न पादपतनादूर्ध्वमुपायोऽस्ति । सार्वत्रिकमिति न
कन्यायामेव । अन्यस्यामपि ।
 
तेदानप्रसङ्गेण मृदु विशदमकाहलमस्याचुम्वनम् । तत्र सिद्धा-
मालापयेत् । तँच्छ्रवणार्थं यत्किचिदल्पाक्षराभिषेयमजानन्निव पृ-
च्छेत् । तत्र निष्पतिपत्तिमनुद्वेजयन्सान्त्वनायुक्तं बहुश एव पृ.
च्छेत् । तत्राप्यवदन्तीं निर्वधीयात् ॥
 
मृद्विति यंत्र ग्रहणं नास्ति । तस्योद्वेजनत्वात् । विशदं स्पर्शकरम् ।
अकाहलमशब्दम् । सशब्देन लज्जिता स्यात् । तत्र सिद्धां चुम्बनेनानु-
कूलामालापयेत् यथा ब्रवीति । अत्रोपायमाह - तच्छ्रवणार्थमिति आ
लापश्रवणार्थम् । यत्किचिदिति दृष्टं श्रुतं वा तदानीम् । अल्पाक्षराभि-
धेयं सुकथनीयत्वात् । अजानन्निवेति । अन्यथा विहावयतीति जानी-
यात् । निष्पतिपत्तिं तूष्णीं स्थिताम् । सान्त्वनायुक्तं चाटुयुक्तम् । नि-
बेनीयात् अनेनैव क्रमेण ।
 
निर्बन्धे विरज्यत इति चेदाह -
 
सर्वा एव हि कन्या: पुरुषेण प्रयुज्यमानं वचनं विपहन्ते । न
तु लघुमिश्रामपि वाचं वदन्ति । इति घोटकमुखः ॥
 
सर्वा एवेति । प्रयुज्यमानमिति पुनःपुनरुच्यमानं विषहन्ते । आविर्भ-
वन्मन्मथत्वात् । लघुमिश्रामपीति कतिपयाक्षरामन्यार्थश्लिष्टामपि न वद-
न्ति । लज्जापरतन्त्रत्वात् ।
 
१. 'ख्याते:'. २. 'साधनवाक्यै:'. ३. 'त्वमेतर्हि मे'. ४. 'ततः'; 'चेतः'; 'न च'.
५. 'तद्दानप्रयोगेण'; 'ताम्बूलदानप्रसङ्गेन'. ६. 'आस्य चुम्बनम्'. ७. 'तदालापधवणार्थी';
'तद्वाक्यश्रवणायें'. ८. 'न निर्बंधीयात्'. ९. 'यन्त्रप्रहण नास्ति तस्योद्वेजनात्..
१०. 'अपि'. ११. 'लध्वक्षरमिश्राम्'.
 
का० २६