This page has not been fully proofread.

२००
 
कामसूत्रम् ।
 
१७ आदितोऽध्यायः]
 
संप्रयोगद्वेषिण्यो जातानिच्छकत्वात् । तस्मात्साम्नेति मृदुना । सर्वोपचा-
राणामयं प्राथमिको विधिः ।
 
तत्रालब्धप्रसरस्योपचारयोगासंभावात्तदुपायमाह-
युक्त्यापि तु यतः प्रसरमुपलभेत्तेनैवानु प्रविशेत् ॥
 
युक्त्येति । कयाचिदर्थयुक्त्या तत्कालभाविन्या । यतः प्रसरमिति
तत्सख्या सह संभाषणे क्रीडने वा आत्मनोऽवकाशमुपलभेत्तेनैव संभा-
पणेन क्रीडनेन वा द्वारेण तामनुप्रविशेत् ।
 
kampung
 
ततो लब्धप्रसरस्य प्रथममुपगूहनेनोपक्रम इत्याह-
तत्प्रियेणालिङ्गनेनाचरितेन । नातिकालत्वात् ॥
 
तत्प्रियेणेति । कथं तत्प्रियमित्याह –नातिकालत्वादिति । यद्दत्त्वा-
नन्तरमेवापनीयते तस्यानुद्वेजनकरत्वात् ।
 
पूर्वकायेण चोपक्रमेत् । विपद्यत्वात् ॥
 
पूर्वकायेण चेति । तस्या यो नाभेरूर्ध्वभागस्तेन प्रथममुपक्रमेत् ।
विपह्यत्वादिति । तेनोपक्रमः शक्यते सोढुम् । नाधरकायेन । उद्वेजन-
करत्वात् ।
 
दीपालोके विगाढयौवनाया: पूर्वसंस्तुतायाः । बालाया अपू
वयाचान्धकारे ॥
 
दीपालोके कौतुकगृहवर्तिनि । विगाढयौवनापूर्वसंस्तुतयोः । भयलज्जा-
भावात् । बालापूर्वयोरन्धकारे । लज्जाधिक्यात् । विगाढयौवनाप्यन्यशु-
भलक्षणयोगादूढा । लघुदोषत्वात् ।
 
अङ्गीकृतपरिष्वजायाच वेदनेन ताम्बूलदानम् । तदप्रतिपद्यमा-
नां च सान्त्वनैर्वाक्यैः शपयैः प्रतियाचितैः पादपतनैश्च ग्राहयेत् ।
व्रीडायुक्तापि योपिदसन्तक्रुद्धापि न पादपतनमतिवर्तते इति सा-
र्वत्रिकम् ॥
 
१.. 'अनतिकालत्वात्'. २ 'उपनीयते । तस्यानुद्वेगजनकत्वात् ३. 'पूर्वकायेन
चोपक्रमः'; 'पूर्वकार्येनैवोपक्रमेत्'.४. 'नावरकायेन'. ५. 'विगाढयौवनाया पूर्वसंस्तुताथ.
६. 'बालाया अपूर्वायाथान्धकारे' इति पुस्तकान्तरे नास्ति ७. 'विगाढयौवनाकारा'.
८. 'लघुलक्षणत्वात्'. ९. 'वदने' १०. 'सान्त्वनवायैः सशपयैः प्रीतियाचनैः.