This page has not been fully proofread.


 
२ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
१९९
 
किमर्थमुपक्रम्यत इत्याह-
त्रिरात्रमवचनं हि स्तम्भमिव नायकं पश्यन्ती कन्या निर्वि-
द्येत परिभवेच्च तृतीयामिव प्रकृतिम् । इति वाभ्रवीयाः ॥
त्रिरात्रमिति । स्तम्भमिव मूकं निश्चेष्टं तत्र निर्वचनं पश्यन्ती निर्वि-
घेत । मूकेन ग्राम्येण चाह मूढेति खिद्येत । परिभवेच्चेति निश्चेष्टत्वान्न-
पुंसकमिति तिरस्कारबुद्धिं तत्र कुर्यात् ।
 
अस्मिन्पक्षे सर्वस्याविशङ्कया करणे प्राप्ते प्रतिषेधमाह -
उपक्रमेत विस्रम्भयेच्च, न तु ब्रह्मचर्यमतिवर्तेत । इति वात्स्या-
यनः ॥
 
उपक्रमेत यथा न निर्विद्येत । विसम्भयेच यथा संप्रयोगेऽनुकूला
भवति । न तु ब्रह्मचर्यमतिवर्तेत । अनुकूलायामप्यकाले व्रतखण्डनस्या-
धर्मत्वात् ।
 
उपक्रममाणच न प्रसय किचिदाचरेत् ॥
उपक्रममाणश्चेत्यादिना मृदुमिरुपचारैरित्यस्य प्रपञ्चः । न प्रसद्ध किं-
चिदिति । स्पर्शनमपि नाभिभूय कुर्यादित्यर्थः ।
 
किमर्थमित्याह-
कुसुमसघर्माणो हि योपितः सुकुमारोपक्रमाः । तास्त्वनधिगत-
विश्वासैः प्रसभमुपक्रम्यमाणाः संप्रयोगद्वेषिण्यो भवन्ति । तस्मा-
तसाचैवोचरेत् ॥
 
कुसुमसघर्माण इति कुसुमतुल्याः । योपित इति सर्वा एव । विशे-
षतः कन्याः । सुकुमारोपक्रमा इति मृदुरुपक्रमः स्पर्शनादिलक्षणो यासु ।
अनधिगतविश्वासैरिति । लव्धविश्वासैस्तु प्रसह्योपक्रमो न ढोपाय ।
 
१. 'त्रिरात्रमवचनमित्याचार्याः । त्रिरात्रमवचन हि स्तम्भमिव विमना नायकं पदय-
न्ती कन्या निर्विष्टोहूना परिभवेच्च'. २. 'तृतीया प्रकृतिमिन'. ३. 'ब्रह्मवर्चस'. ४. 'मा-
लतीमाथवे सप्तमाङ्कप्रारम्भ एव बुद्धरक्षितावाक्ये समुद्धृतमेतत्सूत्र महाकविधीभवभू-
तिना. ५. 'भवन्ति । पुरुषद्वेपिण्यो वा. ६. 'उपक्रमेत'.