This page has not been fully proofread.

१०
 
कामसूत्रम् ।
 
२ आदितोऽध्यायः ]
 
चिन्त्यम् । प्रतिपत्तिस्त्रिविधा, अनुष्ठानमवबोधः संप्रतिपत्तिश्चेति । तत्र
प्राधान्यादनुष्ठानमधिकृत्याह-
शतायुर्वे पुरुषो विभज्य कालमन्योन्यातुबद्धं परस्परस्यानुप-
घातकं त्रिवर्ग सेवेत ॥
 
शतायुरिति । शतमायुरस्येति शतायुः । शतशब्द: सामान्यवाच्यपि
वर्षगतसंख्यानमाह । वृत्तौ तथार्थस्य विवक्षितत्वात् । कालविभागाथै चेत्त-
दपि विच्छिन्नायुषो विभागासंभवात् । पुरुष इति प्राधान्यख्यापनार्थम् ।
स्त्रीणां तु पुरुषाधीना त्रिवर्गसेवेत्यखातन्त्र्यम् । विभज्य वक्ष्यमाणेन न्या-
येन । अन्योन्यानुबद्धमिति धर्मादीनामन्यतमं द्वाभ्यामेकेन वानुबद्धम् ।
तद्यथा प्रजार्थिनो धर्मपत्न्यामनभिप्रेतायामृतावभिगमनं धर्मोऽर्थानुवद्धः ।
प्रजार्थिनोऽभिप्रेतायामृतावभिगमनं धर्मः कामानुवद्धः । अपरिणीतस्य सव-
र्णादनभिप्रेतकन्यालाभोऽर्थो धर्मानुबद्धः । परिणीतस्याधमवर्णादभिप्रेतक-
न्यालामोऽर्थः कामानुबद्धः । धर्मपत्न्यामभिप्रेतायां कामातुरायामनृतौ कामो
धर्मानुबद्धः। परिणीतस्य निष्किचनस्याघमवर्णायामर्थवत्यामभिप्रेतायामँघि-
गतायां कामोऽर्थानुबद्धः । इत्येकानुवद्धाः । अपरिणीतस्य सवर्णायामनन्य-
पूर्वायामभिप्रेतायां यथाविधिसंयोगो धर्मोऽर्थकामानुबद्धः । तस्यैवाभिप्रेत्य
सवर्णकन्यालाभोऽर्थो धर्मकामानुबद्धः । तस्यैवार्थरूपवत्यां परस्परोत्क
योद्वाहितायां कामो धर्मार्थानुबद्धः । इति द्वयनुबद्धाः । परस्परस्यानुप
तकमिति । यत्रानुबन्धो नास्ति तत्रैकमितरयोरैंनुपघातकम्, एकानुबन
चान्यस्यानुपघातकं सेवेत । अत्रोदाहरणं वक्ष्यामः ।
वयोद्वारेण कालविभागमाह -
 
वाल्ये विद्याग्रहणादीनर्थान् ॥
 
बाल्य इति । वयोविभागस्तत्रान्तर उक्तः– 'आ षोडशाद्भवेद्वालो
यावत्क्षीरांन्नवर्तनः । मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते ॥ इति ।
विद्याग्रहणमादिर्येषामर्थानां तान्सेवेतेति ।
 
१. 'वैतदपि' पा० २. 'ऋतावेव गमनम्' पा०. ३. 'अभिगतायाम्' पा०. ४.
'सवर्णयानन्यपूर्वयाभिप्रेतया' पा०. ५. 'अस्ति' पा०. ६. 'अनुपघातकमिति' पा०.
७. 'चर्तिकः'; 'वृत्तिकः' पा०.