This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
एवमधिगताप्यविश्वासिता न प्रयोगार्हेति कन्याविसम्भणमुच्यते ।
तत्र विवाहानन्तरं मजलाचारमाह -
 
संगतयोखिरात्रमधः शैय्या ब्रह्मचर्य क्षारलवणवर्जमाहारस्तथा
सप्ताहं सतूर्यमङ्गलस्नानं प्रसाधनं सहभोजनं च प्रेक्षा संवन्धिनां च
पूजनम् । इति सार्ववर्णिकम् ॥
 
संगतयोरिति । परिणयात्प्राप्त समागमयोः । त्रिरात्रमिति । रात्रिग्र-
हणं रात्रिकर्मप्रदर्शनार्थम् । अधः शय्या भूमौ शयनम् । न खट्ट्टा-
याम् । ब्रह्मचर्य यावच्चतुर्थिकाहोमो न क्रियते । दिवामैथुनस्य प्रतिषि-
द्धत्वात् । क्षारः फाणितगुडादिः । लवणं सैन्धवादि । तद्वजै भोजनं म
धुक्षीरघृतसंस्कृतप्रायम् । तच्च नक्तं स्यात् । रात्रिकर्मवर्गे पठितत्वात् ।
तथा सप्ताहमिति । यथा व्यहम् । तदूर्ध्वमपराणि सप्तानीत्यर्थः । अहर्झ-
हणं दिनकर्मप्रदर्शनार्थम् । सवाद्यं समझलं सगीतं स्नानं च । प्रसाधनं
मण्डनम् । सहभोजनं चेति । एकस्सिन्स्थाने । पूर्वत्रापि सहभोजनं किं
तु व्रतस्थत्वात्क्षारलवणवजै नक्तं च तदिति । प्रेक्षा संबन्धिनां नटादीनां
च दर्शनम् । पूजनं च गन्धमाल्यादिभिः । सार्ववर्णिकमिति चतुर्ष्वपि
ब्राह्मणादिवर्णेषु भवम् । अविरुद्धत्वात् । एतच लोके दशरात्रिकमि-
त्युच्यते । तथा चोक्तम् –'कन्यावेश्मनि निर्वर्त्य राजबद्दशरात्रिकम् ।
सभार्यः स्वगृहं यायात्स्थितेर्वा कुलदेशयोः ॥ इति ।
 
विसम्भणोपायमाह -
 
तस्मिन्नेतां निशि बिजने मृदुभिरुपचारैरुपक्रमेत ॥
 
तस्मिन्निति दशरात्रिके । कन्या द्विविधा संसर्गयोग्या इतरा च ।
पूर्वस्या विसम्भणं रेतापेक्षया । द्वितीयाया भयलज्जापगमापेक्षया । निशि
मन्दसाध्वसत्वात् । विजने कौतुकगृहे । लज्जापगमात् । मूदुभिरुपचा-
रैरिति अनुद्वेगकरैरालापस्पर्शनादिभिः ।
 
१. 'संहतयो: '. २. 'शयन'. ३. 'अक्षारालवणमाहार:'. ४. 'रात्रिकर्मवर्गोपचित-
त्वात्'. ५. 'उपाय:'. ६. 'रतापेक्षायाः'. ७. 'अनुद्वेजनकरैः'.