This page has not been fully proofread.

१ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
कन्यां गृहीत्वा वर्तेत प्रेष्यवद्यत्र नायकः ।
तं विद्यादुच्चसंवन्धं परित्यक्तं मनस्विभिः ॥
कन्यामिति । गृहीत्वा परिणीय । प्रेष्यवद्धृत्यवत् । द्रव्यायत्यभावात् ।
उच्चसंबन्धमिति अधिकेन च संवेन्धनात् । परित्यक्तं मनस्विभिः । ये तु
नैवं ते कुर्वन्त्येव ।
 
स्वामिषद्विचरेद्यत्र वान्धवैः स्वैः पुरस्कृतः ।
 
१९७
 
अश्लाघ्यो हीनसंवन्धः सोऽपि सद्भिर्विनिन्द्यते ॥
स्वामिवदिति । कन्या गृहीत्वा प्रभुवद्विचरेत् । द्रव्यायतिमत्वात् ।
बान्धवैः श्वशुरश्यालकादिभिः प्रेष्यभूतैः परिवृतः । अश्लाघ्य इत्यश्ला-
घनीयः । तदनुरूपलोकाचारामावात् । सद्भिरिति लोकव्यवहारज्ञैः ।
 
परस्परसुखास्वादा क्रीडा यत्र प्रयुज्यते ।
विशेषयन्ती चान्योन्यं संवन्धः स विधीयते ॥
परस्परसुखाखादेति वरपक्षस्य कन्यापक्षस्य च सुखानुभवो यस्यां
परस्परप्रयुक्तायां क्रीडायाम् । विशेषयन्ती चान्योन्यं प्रयुज्यते यस्मि-
न्संबन्धे स संवन्धो विघीयत इति । सद्भिः क्रियत इत्यर्थः । पूर्वौ तु न
विघीयेते इत्यर्थोक्तम् ।
 
तयोरपि कः श्रेयानित्याह-
कृत्वापि चोञ्चसंबन्धं पञ्चज्ज्ञांतिषु संनमेत् ।
न त्वेव हीनसंवन्धं कुर्यात्सद्भिर्विनिन्दितम् ॥
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे
वरणविधानं संबन्धनिश्चयश्च प्रथमोऽध्यायः ।
कृत्वापीति । ज्ञातिषु संनमेदिति ज्ञातिगृहे स्वयं यायात् । न श्वागुरगृह
इत्यर्थः । न त्वेवेत्येकान्तेनैव प्रतिषेधः । संवन्धनिश्चयश्चतुर्विशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकाया जयमङ्गलाभिधानाया विदग्धाङ्गनाविरहका-
तरेण गुरुदत्तेन्द्रपादामिधानेन यशोधरेणैकत्रकृतसूत्रभाध्यायां कन्यासंत्र-
युक्तके तृतीयेऽधिकरणे वरणविधानं सवन्धनिश्चयश्च प्रथमोऽध्यायः ।
 

 
१. 'मनीषिभिः'. २. 'संबन्धिना'. ३. 'तै.'. ४. 'निगद्यते'. ५. 'वान्योन्यं'.
६. 'अभिधीयते'. ७. 'बन्धुपु'. ८. 'निर्णय:'.