This page has not been fully proofread.

= १ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
१९५
 
तु मनश्चक्षुनिंबन्धनेऽप्युपेक्षाम् । तत्रापि दोषाणां गुरुलाघवं परीक्ष्यमिति ।
कन्यापक्षे वरणनिमित्तं संविधानमाह -
 
तस्मात्मैदानसमये कन्यामुदारवेषां स्थापयेयुः । अपराहिकं च
नित्यं प्रसाधितायाः सखीभिः सह क्रीडा । यज्ञविवाहादिपु जन-
संद्रावेषु प्रायत्निकं दर्शनम् । तथोत्सवेषु च । पॅण्यसघर्मत्वात् ॥
 
तस्मादिति । यतः सुप्ताद्यनिमित्तात्कन्या न त्रियते तस्मात् । प्रदान-
समय इति । उपलक्षणार्थत्वाद्वरणकालेऽपि प्रसाधितां स्थापयेयुः कन्या-
पक्षीयाः । अपराह्निकमिति प्रदानात्प्रागपराह्णभवं विधिम् । स्थापयेयुरि-
त्येव । तमाह – नित्यमिति । सखीभिः सह क्रीडा रथ्याचत्वरादिषु । यज्ञ-
विवाहादिषु चान्यदीयेषु । जनसंद्रावेष्विति । जनाः संभूय द्रवन्ति येषु ।
'समि युद्रुदुवः' इति कर्तरि कारके घन् । प्रायत्निकमिति प्रयत्नसाध्यम् ।
परिचाराधिष्ठितत्वात्कौतुकेन लोको यत्नेन पश्यति । तथोत्सवेषु च वस-
न्तकादिषु जैनसंद्रावेषु प्रायत्निकम् । पण्यसघर्मत्वादिति । विक्रेतव्यतु-
ल्यकौतुकेन हि लोको यत्नेन पश्यति । न दृश्यमाना पण्यवद्धियेत ।
वरयितॄणां च लक्षणमुपचारं चाह -
 
वरणार्थमुपगतांश्च भद्रदर्शनान्प्रदक्षिणवाचश्च तत्संवन्धिसंगता-
पुरुषान्मङ्गलैः प्रतिगृह्णीयुः । कन्यां चैषामलंकृतामन्यापदेशेन दर्श-
येयुः । दैव' परीक्षणं चावधिं स्थापयेयुः । आ प्रदाननिश्चयात् ॥
 
वरणार्थमिति । अहीनाङ्गत्वान्मङ्गलाचारप्रयुक्तत्वात् । प्रदक्षिणवाच इति
अनुकूलवाचः । तत्संबन्धिसंगतानिति यत्प्रागुक्तं मित्राणि संवन्धिनश्चेति
तैः सहेत्यर्थः । मङ्गलैर्दध्यक्षतादिभिः प्रतिगृह्णीयात् कन्यापक्षीयः । अन्या-
पदेशेनेति अन्यकार्यमपदिश्य । न तूपेत्य दर्शयेत् । दानस्यानिश्चित-
त्वात् । दैवं परीक्षणं चेति । यावत्प्रदानं न निश्चीयते तावदेवं प्राजाप-
१. 'निवन्धनेऽप्यपेक्षः'. २. 'प्रदानकाले दर्शनविषये स्थापयेयुः । आपराङ्गिक वा';
'अपराहे च'. ३. 'नित्यप्रसाधिताया.'. ४. 'जनसमुदायेषु'; 'जनसद्भावेषु'. ५. 'पप्प-
सधर्मत्वात्कन्यानाम् . ६. 'ततः '. ७. 'सुप्ता यद्यपि कन्या'. ८. 'सद्भावेषु . ९. 'जनस-
द्भावेषु'. १०. 'सुहृत्संबन्धि-'. ११. 'दैवपरीक्षणं'. १२. 'निरुपेत्य'. १३. 'देवता'.