This page has not been fully proofread.

१९४
 
१६ आदितोऽध्यायः]
 
कामसूत्रम् ।
 
नक्षत्राख्यां नदीनानीं वृक्षनानीं च गर्हिताम् ।
लकाररेफोपान्तां च वरणे परिवर्जयेत् ॥
 
सुप्तामिति । शयनमल्पायुषं सूचयति । रुदतीं दुःखभागिनीम् । नि-
ष्क्रान्तां गृहान्निष्कामन्तीम् । गृहत्यागिनीं दृष्ट्वा वरणकाले वरयिता वर्ज-
येत् । अप्रशस्तनामधेयामिति भङ्गिका वित्राटिकेति । गुप्तामप्रदर्शिताम् ।
आशङ्कयमानदोषत्वात् । दत्तामित्यनन्यपूर्वामित्यस्य, घोनादयश्च लक्षण-
संपन्नामित्यस्य प्रपञ्चोऽवश्यत्यागार्थः । तत्र घोनां कपिलां पतिघ्नीम् ।
पृषतां शुक्लबिन्दुयुतामर्थहानिकरीं पतिघ्नीं च । ऋषमां पुरुषसंस्थानां
दुःशीलाम् । विनतां स्कन्धदेशावनतां दुःशीलाम् । विकटामसंहतोरूं
दुःखभागिनीम् । विमुण्डां बृहल्ललाटां पतिघ्नीम् । शुचिदूषितां पितुर्मू-
तस्य दत्तोल्कां क्रियया न प्रशस्ताम् । सांकरिकीं पुरुषदूषिताम् ।
तस्यां पत्नीयोगो न धर्मः । राकां जातरजसम् । रजसा क्षतयोनित्वात् ।
फलिनीं मूकां संव्यवहारबाह्याम् । मित्रां मित्रत्वेन गृहीतामगम्याम् ।
खनुजामिति त्रिवर्षात्प्रभृति न्यूनवयसमित्यस्य शेषः । सुष्ठु पश्चाज्जाता-
मित्यर्थः । यथोक्तम् – 'चतुर्थादष्टमं यावत्कनिष्ठा वत्सरे वरात् । कन्यां
परिणयेच्छस्तां नेतरातिवया याः ॥ वर्षकरी खिद्यत्करचरणां पतिघ्नीम् ।
नक्षत्राख्यां श्रवणां विशाखामित्येवमादि । नदीनाम गङ्गायमुनेत्यादि ।
वृक्षनाम जम्बू: प्रियंगुरित्यादि । लकाररफोपान्तां चेति । लकाररेफाव-
न्ताक्षरसमीपे नाम्नि यस्याः । कमलू विमलू चारू तारू चेति ।
 
-
 
यस्यां मनचक्षुषोर्निवन्धस्तस्यामृद्धिः । नेतरामाद्रियेत । इत्येके ॥
मनश्चक्षुषोर्निबन्धनमिति केषांचिन्मतम् । यस्याममिजनादिसद्भावेऽपि
मनःसङ्गश्चक्षुःप्रीतिश्चोभयमपरमस्ति तस्यां पत्न्यां सत्यां सिद्धिस्त्रिवर्गप्रा.
प्तिरित्ययमुत्तमः पक्षः । नेतरामिति । यस्यां नास्ति न तामाद्रियेतत्यघमः
पक्षः । केवलमभिजनाद्यपेक्षां वरयेत् । पूर्वामादरेणेति विशेषः । दोषेषु
 
१. 'आशङ्कमानां दोपत्वात् '. २. 'अन्यपूर्वी'. ३. 'द्योता'. ४. 'धूपभां'. ५. सुविदू-
पितां'. ६. 'सद्व्यवहार'. ७. 'ऊनवयसं'. ८. 'विशाखाख्या'. ९. 'यस्या नायकस्य'.