This page has not been fully proofread.

१ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
१९३
 
लग्नादुपचयस्थानेषु स्थितानां यद्वलं दिक्कालस्थानस्वभावैस्तस्य दर्शनेन
लक्षणस्य शङ्खचक्रादेर्दर्शनेन भविष्यन्तमनागतमर्थतंयोगं सेनापत्याध्यक्ष-
पत्तनादिलाभम् । कल्याणमिति कल्याणहेतुत्वात् । अर्थानुबन्धमित्यर्थः ।
अपरे पुनरस्यान्यतो विशिष्टेन कन्यालाभेन कन्यामातरमुन्मा-
दयेयुः ॥
 
अपर इति दैवचिन्तकरूपाः । अस्य नायकस्य । अन्यत इति यतो
ब्रियते कन्या ततोऽन्यसात् । विशिष्टेनेति अमुष्य सेनापतेरतेरर्थरूपवती
सुमहिमा अस्सै कर्तुमिष्यते । येन वयं श्वस्तने नक्षत्रसंयोगं पृष्टा इत्यनेन
कन्यामातरमुन्मादयेयुरनुरजयेयुः । येनानुरक्ता दुहितरं दद्यात् ।
दैवनिमित्तशकुनोपश्रुतीनामानुलोम्येन कन्यां वरयेद्दद्याच ॥
दैवनिमित्तशकुनोपश्रुतीनामिति । पूर्वजन्मकृतं शुभमशुभं वा कर्म
दैवम् । तस्याभिव्यञ्जकत्वान्नक्षत्रग्रहा अपि दैवमुच्यते । अस्यानुकूल्येन
षैट्राष्टकादियोगाभावात् । किमियमूढा कल्याणकरी नेति शास्त्रोक्तं निमित्तं
शकुनट्टैच्छा च कार्या । निशीथे चोपश्रुतिर्भासा । तेषामानुकूल्येन वराय
दीयमानामीप्सेत, दद्याच्च कन्यापक्षः ।
 

 
न यहच्छया कलमानुषायेति घोटकमुखः ॥
केवलमानुषायेति । केवलं मानुषं कर्म यस्याम् । यहच्छायामभिजनसा-
नाथ्यादिकमस्तीति । नैवान्येच्छया वरयेद्दद्याञ्चेत्यर्थः । घोटकमुख इति
परमतमभिमतम् । अप्रतिषिद्धत्वात् ।
 
वरणकाले कन्यां दृष्ट्वा निमित्तं पश्येदिति दर्शयन्नाह -
 
सुतां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत् । अमशस्तनामधेयां च
गुप्तां दत्तां धोनां पृषतामृषभां विनतां विकटां विमुण्डां शुचिपितां
सांकरिकी राकां फैलिनीं मित्रां स्वनुजां वर्षकरीं च वर्जयेत् ॥
 
१. 'उत्साहयेयुः' २. 'षडोष्टकादि'. ३. 'पृच्छाथ'. ४. 'केवलमात्माशयेनेति ; 'के-
वलमात्मात्रोपयमेदिति'. ५. 'गुप्ताधिगता'. ६. 'घोणा'; 'घोला'; 'द्योतां'. ७ 'मुण्डां';
'मुरुण्डा'; 'विरुण्डा'. ८. 'सुविदूषिता'; 'विदूषिका'; 'मलूपिका'. ९ 'स्थावरिकां शाक-
रिका'; 'स्वावरिका शाकरिका'. १०. 'फलिनीं पालीं गुल्मिनी व्यङ्गा मित्रामनुजा वर्षी
वर्जयेत्'; 'फणिनीं पालीं गुल्मिनीं जनसमवायेषु व्यङ्गा मित्राममित्रानुजा वर्षी वर्जयेत् .
 
का० २५