This page has not been fully proofread.

१ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
कोविनष्टदन्तन खकर्णकेशाक्षिस्तनीमरोगिप्रकृतिशरीरां
एवं श्रुतवान्शीलयेत् ॥
 
तस्मात्कन्यां शील्येदिति संबन्धः । अशीलितायां वरणासंभवात् ।
तत्र शीलमभिजनतः सनाथतो वयसः कुलाचारतोऽनुरागतो रूपतः शी-
लतो वा लक्षणत आरोग्यतश्चेति यथाक्रममाह अभिजनं कुलं माता-
पितृगतम् । त्रिवर्षादिति वर्षत्रयात्प्रभृति न्यूनवयसम् । नैकेन यां
वापि समवयसमधिकवयसं वा । लाय्यः स्पृहणीय आचारो यस्मिन्कुले ।
धनवति धनधान्याढ्ये । संबन्धिप्रियेऽनुरागिणि । पक्षवति । संबन्धिमिरा-
कुले । प्रभूतमातापितृपक्षामित्यनेनातिसनाथतामिति दर्शयति । रूपं श-
रीरस्य शोमनो यो वर्णः संस्थानं च । शीलं सुखभावता । लक्षणमवै-
धव्यादिसूचकम् । अन्यूनेति । तत्प्रत्येकं योज्यम् । यथासंभवमन्यूनमन-
धिकमनष्टं च दन्तादि यस्या । अवयवरूपेणापि युक्तामित्यर्थः । क-
न्याया दन्तादीनां प्रधानावयवत्वात् । अरोगिप्रकृतिशरीरामिति । व
भावतो न रोगवच्छरीरं यस्या इत्यर्थः । तथाविध एवेति अभिजनाधु-
पेतः । अन्यथा दागम्य एव स्यात् । विशेषमाह - श्रुतवानिति । गृही-
तविद्य इत्यर्थः । शीलयेन्मनसि समादध्यात्। 'शील समाघौ' इति धा-
तुपाठात् ।
 
यां गृहीत्वा कृतिनमात्मानं मन्येत न च समानैर्निन्द्येत तस्यां
प्रवृत्तिरिति घोटकमुखः ॥
 
गृहीत्वा परिणीय । कृतिनं कृतार्थम् । न च समानैर्निन्धेत कुत्सा-
जन्यं कृतमनेनेति । प्रवृत्तिर्वरणसंविधानम् । घोटकमुखग्रहणमधिकरण-
प्रावीण्यख्यापनार्थम् ।
 
१९१
 
तैयाविध
 
वरणं द्विविधम् -पौरुषेण दैवेन च विधिना । तत्र पूर्वमधिकृत्याह-
तस्या वरणे मातापितरौ संवन्धिनच प्रयतेरन् । मित्राणि च
गृहीतवाक्यान्युभयसंवद्धानि ॥
 
१. 'अविनष्टकेशनखदन्तकर्णाक्षिस्तनीम्'. २. 'तयाविधगुण एवं'. ३. 'मातृपितृ-
गतम्.