This page has not been fully proofread.

१९०
 
१६ आदितोऽध्यायः]
 
कामसूत्रम् ।
 
कन्यासंप्रयुक्तकं नाम तृतीयमधिकरणम् ।
 
प्रथमोऽध्यायः ।
 
चतुःषष्टिविचक्षणः कन्याभिर्मावतो वीक्ष्यमाणोऽपि न समागमं विना
संप्रयुज्यत इति तत्समागमोपाय आवाप उच्यते । समन्तादावाप्यन्ते
स्त्रियोऽनेनेति । तत्र कन्यायाः प्रधानत्वात्कन्यासंप्रयुक्तकमुच्यते । तेत्रो-
द्वापा अष्टौ विवाहाः ब्राह्मः प्राजापत्य आर्षों दैवो गान्धर्व आसुरः
पैशाचो राक्षस इति । तत्र पूर्वे चत्वारो धर्म्या इति तदर्थं वरणसंविधानं
प्रकरणमुच्यते । किमर्थमेवमनुष्ठीयत इति चेदाह--
सवर्णायामनन्यपूर्वायां शास्त्रतोऽघिगतायां धैर्मोऽर्थः पुत्राः
संबन्ध: पक्षवृद्धिरनुपस्कृता रतिश्च ॥
 
सवर्णायामिति ब्राह्मणादीनां यथास्वं सवर्णायाम् । अनन्यपूर्वाया-
मिति मनसा कर्मणा वचसा वान्यसै या न दत्ता । तत्र हि यत्प्रथमम-
पत्यं तदस्यैवेति स्मृत्यर्थः । शास्त्रत इति । शास्त्रोक्तेन वरणपूर्वेण परि-
णयविधिनाधिगतायां खीकृतायां सत्यां धर्मः पत्याख्यो रत्यादि-
प्रवर्तनं च । अर्थों यौतकलाभाद्गार्हस्थ्यानुष्ठानाञ्च । पुत्रा दृष्टादृष्टार्थाः ।
संवन्धः सहैकमोजनादिहेतुः । पक्षवृद्धिरिति खपक्षस्य वृद्धिः । पक्षा-
न्तरलाभात् । अनुपस्कृता रतिरकृत्रिमा । विश्वासातिशययोगात् ।
 
यतश्चैवम् -
 
तस्मात्कन्यामभिजनोपेतां मातापितृमत त्रिवर्षात्मभृति न्यून-
वयसं श्लाघ्याचारे धनवति पक्षवति कुले संबन्धिप्रिये संवन्धिभि-
राकुले प्रसूतां मैंभूतमातृमितृपक्षां रूपशीललक्षणसंपन्नार्मन्यूनाघि-
१. चतुःषष्टिस्तन्त्रं तद्विचक्षणः चतुःषष्टिः सूत्रम्. २. 'तत्रोपायाः'. ३. 'धर्मार्थ-
पुत्राः'. ४. 'संयोगाख्या इत्यादि'. ५. 'अन्यूनवयसम्. ६. 'पक्षवति संबन्धिप्रिये संब-
न्धिमियाकुले कुले', ७. 'प्रभूतपितृपक्षाम्'. ८ 'अन्यूनाधिकाङ्गीम्'.