This page has not been fully proofread.

२ अध्याय:]
 
१ साधारणमधिकरणम् ।
 
उ तन्त्रावापानुष्ठानं न साधारणानुष्ठानं विनेति प्राक्साधारणमुच्यते । औ
पनिषदिकं तु तन्त्रावापाभ्यामसिद्धे व्याप्रियत इत्यन्ते वक्ष्यति । तदुभ-
यमपि तघ्रावापान्तर्गतमेव । तदङ्गत्वात् । तत्र साधारणे शास्त्रसंग्रहप-
करणमादावुक्तम् । तत्र शास्त्रस्य संगृह्यमाणत्वात् । पत्रिंशदित्यादिना
स्वशास्त्रस्यावयवसमुदायाभ्यां संख्यानमाह । तन्त्राध्यायसंख्यानं पूर्व-
शास्त्रेभ्य इदं स्तोकमिति दर्शनार्थम् । प्रकरणाधिकरणसंख्यानमन्यनिरपे-
क्षार्थम् । लोकसंख्यानमहीनाधिकत्वज्ञापनार्थम् ।
उत्तरग्रन्थसंधानायाह--

 

 
!
 
संक्षेपमिममुक्त्वास्य विस्तरोऽतः प्रवक्ष्यते ।
ईष्टं हि विदुषां लोके समासव्यासभाषणम् ॥
अ इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे
शास्त्रसंग्रहः प्रथमोऽध्यायः ।
 

 
G
 
जनविति । अस्येति शास्त्रस्य । विस्तरोऽतः प्रवक्ष्यते संक्षेपादूर्ध्वम् ।
विधयः ।विन्यास इत्यत आह – इष्टं हीति । लोके ये शास्त्रेऽघि-
हणनयोगासः । तेषां संक्षेपविस्तराभ्यां शास्त्रस्य मेनसि धारणमिष्टम् ।
पतानि र्थित्वादसंमोहो यथामिलपितर्प्रकरणार्थप्रत्यवमर्शः स्यात् ॥
प्रणयकलात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानाया विदग्धा, नाविर
दश । तरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणेकत्रकृतसूत्रभाप्यायां
साधारणे प्रथमेऽधिकरणे शास्त्रसंग्रह प्रथमोऽध्यायः ।
 
वरण
 
उपक्रम
 
द्वितीयोऽध्यायः ।
 
पावर्तनप्रतिपत्तिफलं शास्त्रम् । तस्मिन्प्रतिपत्तौ विप्रतिपत्तो वा
इति पर्येपणमपि युक्तम् । तस्माच्छाससंग्रहादनन्तरं त्रिवर्गप्रतिपत्तिर-
रणा इति प्रकरणसंवन्धः । उद्देशापेक्षया च संबन्धित्वे कथमुद्देश इति
 
'इह' पा०. २. 'साधनायाह' पा० ३. 'इदम्' पा०. ४. 'सायारणे' इति पुत्र-
-न्तरे नास्ति, ५. 'मननसिद्धिरितीटम्; 'मनति धारणनिट-' पा०. ६. 'प्रकरणर्यः
स्यात्'; 'प्रत्यवमर्प. स्यात्' पा०. ७. 'संबन्धादुरेशापेक्षायाः संबन्धित्ये' पा०.
 
का० २