2023-02-19 13:59:16 by ambuda-bot
This page has not been fully proofread.
.
१८८
कामसूत्रम् ।
१५ आदितोऽध्यायः]
ब्रुवन्नपीति अर्थतः प्रयोगतश्च कथयन् । विद्वत्संसदीति । त्रिवर्गप्रति-
पत्तौ येऽधिकृतास्ते विद्वांसः । तत्समायाम् । कथासु त्रिवर्गस्य ।
वर्जितोऽप्यन्यविज्ञानैरेतैया यस्त्वलंकृतः ।
स गोष्ठयां नरनारीणां कथाखग्रं विगाहते ॥
अन्यविज्ञानैर्व्याकरणादिशास्त्रपरिज्ञानैः । एतयेति चतुःषष्टया । अलं-
कृतः प्रयोगतोऽर्थतश्च ज्ञातत्वात् । गोष्ठयामासनवन्धे अन्यशास्त्र ना-
घिक्रियते । कथासु कामसूत्रस्य । अयं विगाहते अग्रणीर्भवतीत्यर्थः ।
ननु चतुःषष्टेरपूज्यत्वात्कथं [तत्] ज्ञाता विद्वत्संसदि पूज्यत इति
चेदाह -
-
विद्वद्भिः पूजितामेनां खलैरपि सुपूजिताम् ।
पूजितां गणिकासंघैर्नन्दिनीं को न पूजयेत् ॥
विद्वद्भिरिति त्रिवर्गवेदिभिः स्त्रीसंरक्षणोपायत्वात्पूजिताम् । खलैरपि सुपू-
जिताम् । वस्तुतस्तथाविधत्वात् । पूजितां गणिकासंघैः । जीविकोपायत्वात् ।
एवं च कृत्वा नन्दिनीत्युच्यत इत्याह – नन्दिनीमिति । नन्दनं नन्दः
पूजा । सा विद्यते यस्या इति ।
यथेयमनुगतार्थसंज्ञा तथान्यापीत्याह-
नन्दिनी सुभगा सिद्धा सुभगंकरणीति च ।
नारीमियेति चाचार्यैः शास्त्रेप्वेपा निरुच्यते ॥
नन्दिनीति । सुभगा सर्वैर्गृहिभिरनुष्ठीयमानत्वात् । सिद्धा विद्येव वशं-
करणी । सुभगंकरणी स्त्रीपुंसयोः सौभाग्यकरणात् । नारीप्रिया विशेषत-
स्तत्सुखकरणात् । एवमनेकार्थसाधिका । कस्तां न पूजयेत् ।
अतो ज्ञातापि तद्योगात्पूज्य: । विशेषतो नायिकानामित्याह -
कन्याभिः परयोपिद्भिर्गणिकाभिश्चै भावतः ।
वीक्ष्यते वहुमानेन चतुःषष्टिविचक्षणः ॥
१. 'अर्थशः पृथगेनश्च'. ९. 'अनया'. ३. 'तां'. ४. 'शास्त्रेप्वेंवॅमिरुच्यते'. ५. 'तु'.
६. 'चतुःपष्टया'.