This page has not been fully proofread.

१० अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१८७
 
च्छेत् । तत्र पीठमर्दविटंविदूषकैर्नायकमयुक्तैरुपशमितरोषा तैरे-
वानुनीता तैः सदैव तद्भवनमधिगच्छेत् । तंत्र च वसेत् । इति
 
प्रणयकलहः ॥
 
स्वभवनस्था त्विति । निमित्तात्पूर्वोक्तात् । कलहितेति कलहः संजातो
यस्याः । प्राकृतकलहेत्यर्थः । वाचिकममर्षणमेतत् । कायिकमाह -तथा-
विधचेष्टैवेति असूयासूचकैर्दुर्निरीक्षणभङ्गादिभिः । नायकर्मेभिगच्छे-
दिति । तस्य समीपे ढौकितेत्यर्थः । तत्र तस्मिन्कोपानुष्ठाने । नायकप्रयु-
तैस्तस्याः प्रत्यानयने । उपशमितरोषा साम्ना तैरेवानुनीता । अपादप-
तनेन नायकेन । बहिःस्त्रीषु पादपतनस्य प्रतिषिद्धत्वात् । सहैव गच्छेत्
खगौरवोत्पादनार्थम् । तत्र च वसेत् नायकभवने तां रात्रि रागसंधुक्ष-
णार्थम् ।
 
अधिकरणार्थमुपसंहरति-
भवन्ति चात्र श्लोकाः-
एवमेतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम् ।
मयुञ्जानो वरस्त्रीषु सिद्धिं गच्छति नायकः ॥
एवमिति । चतुःषष्टिमालिङ्गनादिकाम् । बाग्रव्येण पाञ्चालेन । वर-
स्त्रीषु तद्विज्ञासु । सिद्धि गच्छति सौमाग्यमाप्नोति । तस्मच्चतुःषष्टिरालि-
अनादीनां ज्ञातव्या । अन्यथा झपरिज्ञाने अन्यशास्त्रपरिज्ञानेऽपि न
केवलं सिद्धि नाधिगच्छति अन्यत्रापि नात्यर्थं पूज्यते ।
 
अस्यास्तु परिज्ञाने अन्यशास्त्रापरिज्ञानेऽपि केवलं सिद्धः पूज्यश्चा-
ग्रणी स्यादिति दर्शयन्नाह -
 
ब्रुवन्नप्यन्यशास्त्राणि चतुःषष्टिविवर्जितः ।
विद्वत्संसदि नात्यर्थे कथासु परिपूज्यते ॥
 
१. 'वेन'. २. 'तत्रैव'. ३. 'तयाविधैथेष्ठितैरेवेति.' ४. 'उपगच्छेत्'. ५. 'अनुप-
शमितरोषा'. ६. 'एवमित्यधिकरणायें'. ७. 'अन्यशास्त्रपरिज्ञाने' इति पुस्तकान्त रे
नास्ति. ८. 'चतुःपष्टया'.