2023-02-19 13:59:16 by ambuda-bot
This page has not been fully proofread.
१८६
कामसूत्रम् ।
१५ आदितोऽध्यायः]
पराधविशेषात् । पादपतनं नायकविशेषात् । प्रसन्नमना इति अप्रद-
शितविकारः । मा भूत्क्षते क्षार इति । तामिति भूमौ सुप्ताम् । अनुनयन्
प्रसादयन् । उपक्रम्योत्थापयितुम् । शयनमारोहयेत् प्रसीदोत्तिष्ठ शयन-
मध्यास्यतामिति ।
तस्य च वचनमुत्तरेण योजयन्ती विवृद्धक्रोधा सकचग्रहमस्या-
स्यमुन्नमय्य पादेन बाहौ शिरसि वक्षसि पृष्ठे वा सकृझिखिरंवह-
न्यात् । द्वारदेशं गच्छेत् । तंत्रोपविश्याश्रुकरणमिति । अतिकु-
द्धापि तु न द्वारदेशाद्भूयो गच्छेत् । दोपवत्वात् । इति दत्तकः ।
तत्र युक्तितोऽनुनीयमाना प्रसादमाकाङ्खेत् । प्रसन्नापि तु सकपा-
येरेव वाक्यैरेनं तुदतीव सन्नरतिकाङ्क्षिणी नायकेन परिरभ्येत ॥
तस्य चेत्यनुनयतः । वचनमुत्तरेण योजयन्ती तत्कालोचितेन । विवृ-
इक्रोधा पुनः पुनरपराधस्मरणात् । सकचग्रहमस्यास्यं मुखमुन्नमय्य ।
किमुद्भाव्यं नेति ज्ञातुं सकृदवहत्य । द्विस्लिरिति क्रोधवशात् । तदानीं
शिरसि पादताडनमपि न दोषाय । सौभाग्यचिह्नं तदिति नागरकवृद्धाः ।
तत्र चेति द्वारदेशे । अनुकरणमश्रुविमोचनम् । न भूयो न बहिः ।
दोपवत्त्वाद्भूयोगमनस्य । कोपव्याजेनान्यत्र गमनाशङ्कोत्पत्तेः । दत्तक-
ग्रहणं पूजार्थम् । तन्मतस्याप्रतिषिद्धत्वात् । तत्रेत्यश्रुकरणे । पादताडनं
क्रोषस्यावधिरिति मन्यमानो नायकः पुनस्तां युक्त्यानुनयेत् । सा तेन
युक्तितोऽनुनीयमाना पादपतनं प्रसादनोपायस्यावधिरिति मन्यमाना प्र-
सादमाकाङ्क्षत् । ततः प्रसन्ना नायकेनालिङ्ग्यते । तथापि सकलुपैः
सासूयैर्वाक्यैरेनं " नायकं तुदती व्यथयन्ती । प्रसन्नरतिकाङ्क्षिणी प्रसन्ना-
द्वतिमाकाङ्क्षमाणा । अन्यथा न यदि परिरभ्येत तदातिभूमिं गतात्को-
पान्नायकोऽप्यप्रसन्न इति । मतोऽयं कुलयुवत्याः पुनर्भुवश्च विधिः ।
वेश्यायाः परपरिगृहीतायाश्च विशेषमाह-
.
स्वभवनस्था तु निमित्तात्कलहिता तथाविधचेष्ठैव नायकमभिग-
-
१. 'वाहो:'. २. 'अवहल'. ३. 'ततोऽत्र चोपविश्य'. ४. 'प्रसन्नां रतिकाङ्क्षिणीं'.
५. 'एव'.
1