This page has not been fully proofread.

१० अध्यायः ]
 
५२ सांप्रयोगिकमधिकरणम् ।
 
१८५
 
प्रेणयकलहं वक्ष्यामः यथा जातविसम्मयोरयन्त्रितरतं तथा प्रण-
यात्कलहोऽपीति प्रणयकलह उच्यते । तत्र कलहकारणमाह -
 
वर्धमानप्रणया तु नायिका सपत्नीनामग्रहणं तदाश्रयमालापं
वा गोत्रस्खलितं वा न मर्पयेत् । नायकव्यलीकं च ॥
 
वर्धमानप्रणया त्विति । यथा यथा विश्वासो वर्धते तथा तथा मृदुम-
ध्याधिमात्रेण न मर्षयेदित्यर्थः । प्रायशश्च नायको विप्रियकारी । तन्मू-
लब्ध कलह इति दर्शयन्नाह —–नायिकेति । नायकस्य विप्रियकरणं
वाचा क्रियया वा । तत्र वाचा सपत्नीनामग्रहणम् । तदाश्रयमिति ।
अगृहीत्वैव नाम सपत्नीसंबद्धं गुणसूचकमालापम् । गोत्रस्खलितं तन्नामा
नायिकाह्वानम् । नायकव्यलीकमिति । सपत्न्या गृहगमनं ताम्बूलादि-
प्रेषणं संयोगादिकं नायकस्यापराधं न मर्षयेत् । क्रियया विप्रियकरणमेतत् ।
अमर्पेण वानुष्ठानादित्याह-
तत्र सुभृशः कलहो रुदितमायासः शिरोरुहाणामवक्षोदनं प्रहण-
नमासनाच्छयनाद्वा मह्यां पॆतनं माल्यभूषणावमोक्षो भूमौ शय्या च ॥
 
तत्रेति सपत्नीनामग्रहणादिषु । अनुष्ठानं वाचा क्रियया च । तत्र वाचा
कलहः सुभृशोऽतीव महान् पुनर्मैवं कार्पोरिति । क्रियया रुदितादि ।
आयासः शरीरवेदनाकम्पादिकः । अवक्षोदनं विधूननम् । प्रहणनमा-
त्मनः । अन्ये नायकस्य शिरोरुहावलम्वनं प्रहणनं चेत्याहुः । मया-
मिति । यतः पतिताया न दुःखोत्पत्तिः । माल्यभूषणयोरपिनद्धयोर्मोक्षणं
त्यागः । भूमौ शय्या । नैं तेन सह शयनम् ।
 
स नायकोsपि सापराधत्वात्कि प्रतिपद्येतेत्याह-
तत्र युक्तरूपेण साम्ना पादपतनेन वा भैँसन्नमनास्तामनुनयन्त्र-
पक्रम्य शयनमारोहयेत् ॥
 
तत्रेति तस्मिन्ननुष्ठाने । सामेति प्रियवचनेन । तस्य युक्तरूपता अ
 
१. 'प्रणयकलहं वक्ष्यामः' इति मूलपाठ इव भाति, मूलपुस्तकेषु तु नोपलभ्यते.
२. 'कारणम्'. ३. 'च'. ४. 'सुभृशम्' ५ 'प्रपतनम् .. ६. 'तेन तेन.
७. 'प्रस-
नाया सानुनयमुपक्रम्य'.
 
का० २४