This page has not been fully proofread.


 
१८४
 
कामसूत्रम् ।
 
पचारान्योजयेत् । एतत्सर्वं समानप्रतिपत्त्योः
दर्पजाद्विशेषमाह -
 
<
 
न्यूनायां कुम्भदास्यां परिचारिकायां वा यावदर्थं संप्रयोगस्त-
पोटारतम् ॥
 
१५ आदितोऽध्यायः]
 
स्त्रीपुंसयोः । हीनाधिकयो-
न्यूनायां तु कुम्भदास्यामिति । अघमायां कुम्भदास्यां परिचारिकायां
वा न्यूनायां न समायां चन्द्रापीडस्येव पत्रलेखायाम् । यावदर्थं याव-
द्रति । पोटारतमिति । उभयव्यञ्जना पोटा नपुंसकम् ।
 
तंत्रोपचारान्नाद्रियेत ॥
तैस्यामुपचारान्नालिङ्गनादीन्नाद्रियेत । अरञ्जनीयत्वात् । केवलं दर्पा-
दुत्पन्नो रागोऽपनेयः ।
 
तथा वेश्याया ग्रामीणेन सह यावदर्य खलरतम् ॥
 
तथेति यथा नायकस्यासादृश्यसंप्रयोगः । वेश्याया इति गणिकाया
रूपाजीवायाः । न कुम्भदास्याः । अभिप्रेतमलभमानाया दर्पाड्रामीणेन
कर्षकादिना संप्रयोगः खलरतम् । खलत्वेन विगोपॅनकरत्वात् ।
 
ग्रामव्रजप्रत्यन्तयोपिद्भिश्च नागरकस्य ॥
 
तथा ग्रामादियोषिद्भिर्नागरकस्य पत्तनवासिनो दर्पाद्यावद संप्रयोगः
खलरतम् । न पोटारतम् । विगोपनस्थापि तत्र संभवात् । तत्र ग्रामयो-
पितः कर्षकादिस्त्रियः । व्रजयोपितो गोप्यः । प्रत्यन्तयोषितः शवर्यादयः ।
विस्रम्भरागाद्विशेष॒माह-
उपन्नविसम्भयोॲ परस्परानुकूल्यादयन्त्रितरतम् । इति रतानि ॥
उत्पन्नवित्रम्भयोश्चेति । चिरकालसंप्रयोगाज्जातविश्वासयोः । परस्प-
रानुकूल्यादिति । आनुकूल्येन पुमानारमेत तदानुकूल्येन च स्त्री । अय-
न्त्रितरतं यन्त्रणाभावात् । तच्च चित्ररतं पुरुषायितादिभेदादनेकविधमिति
बहुवचनेन दर्शयति — रतानीति ॥ इति रतविशेषा एकविशं प्रकरणम् ॥
 
-
 
१. 'दर्पजाविशेषमाह'. २. 'तत्यामिवोपचारानू'. ३. 'वेश्या'. ४. 'अपि गोपनकर-
त्वात्'. ५. 'तु'. ६. 'भजेत'.
 
1