This page has not been fully proofread.

}
 
१५ आदितोऽध्यायः]
 
१८२
 
कामसूत्रम् ।
 
आद्य इति । प्रथमे मनोरथाः कदानयानेन वा संगमोऽस्त्वित्यादयः । पुन-
वियोगे संतप्तयोर्दुःखमखास्थ्यम् । कीर्तनान्ते चेति पुनर्वियोगस्यावर्तन-
मिति दर्शयति । तैस्तैरिति अन्यैरपि विसम्मयोगर्भावसंयुक्तैः । यून
इत्येकशेपनिर्देशात् यूनो युवत्याश्च ॥ रतारम्भावसानिकं विंशतितमं प्रक-
रणम् ॥
 
आरम्भावसानयो रतावयवत्वात्तग्रहणे यथा रतं व्यवस्थं तथा स्वाभा- :
विकादिरागभेदादपि विशिष्यत इत्यतो रतविशेषा उच्यन्ते -
रागवदाहार्यरागं कृत्रिमरागं व्यवहितरागं पोटारतं खलरतमय-
त्रितरतमिति रतविशेषाः ॥
 
रागवदित्यादिना स्वाभाविक आहार्यः कृत्रिमो दर्पजो विसम्भजश्चेति
रागविशेषाः । तद्भेदाद्भागवदादयोऽपि रतविशेषाः ।
एषां लक्षणमुपचारमाह-
-
 
संदर्शनात्मभृत्युभयोरपि प्रवृद्धरागयोः प्रयत्नकृते समागमे अॅ
वासप्रत्यागमने वा कलहवियोगयोगे तद्भागवत् ॥
 
संदर्शनादिति । प्रथमदर्शनात्प्रभृति चक्षुःप्रीत्याद्यवस्थावशात्प्रवृद्ध-
रागयोर्दूतसंप्रेषणादिप्रयत्नात्कृते समागमे यद्रतम् यच्च प्रवासात्प्रत्याग-
मने विरहिणोरुत्कण्ठितयोः, यच्च प्रणयकलहे प्रशान्ते प्रसन्नयो रतं
तद्भागवत् । स्वाभाविकस्य रागस्यातिशयेन योगात् ।
 
तंत्रात्माभिप्रायाद्यावदर्थं च प्रवृत्तिः ॥
 
यावदर्थमिति प्रवृद्धरागत्वान्न किंचित्क्षमते । केवलं खाभिप्रायवशा-
त्तयोर्यावद्रति प्रवृत्तिः ।
 
मध्यस्थरागयोरारब्धं यंदनुरज्यते तदाहार्यरागम् ॥
मध्यस्थरागयोरिति । इच्छामात्रस्योत्पन्नत्वाच्चक्षुःप्रीतिरेव । न मनः-
संप्रयोगादयोऽवस्थाः । इत्यतो मध्यस्थो रागः । तयोर्यदारव्धमारम्भकेण
 
१. 'संगतयो:'. २. 'यूनामिति'. ३. 'अतिप्रवृद्धरागयोः'. 'प्रवृद्धरागयोः' इति पुस्त-
कान्तरे नास्ति, ४. 'प्रवासप्रत्यागमने कुपितप्रसन्नाथ; कलहवियोगयोगे कुपितप्रस
नायाश्च'. ५. 'तत्राभिप्रायात'. ६. 'यदनुरते.
 

 
·