2023-02-19 13:59:14 by ambuda-bot
This page has not been fully proofread.
१८०
कामसूत्रम् ।
१५ आदितोऽध्यायः ]
.
दात्मन इत्यर्थः । आभ्यन्तरं पानादि । तत्रापि परिरभ्यालिङ्गय । चषके
मद्यभाजने । सान्त्वयन्प्रियाणि ब्रुवन् पाययेत् । जलानुपानं वा खण्डखा -
धकं वृंहणीयत्वात् । अन्यद्वा तिलगर्भोत्करादिप्रकृतिसात्म्ययुक्तमुभा-
वप्युपयुञ्जीयाताम् । अच्छरसकयूषमिति । यूषं द्विविधं मांसनिर्यूहं
ब्रीहिनिर्यूहं च । बृंहणीयत्वान्मांसनिर्यूहं रसकयूषमच्छमुपयुञ्जीयाताम् ।
अम्लयवागूं मांससिद्धाम् । वृंहणीयत्वात् । भृष्टं भर्जितं मांसं तदेवो -
पदंशो येषां पानकानाम् । चूतफलानि पक्कानि । शुष्कमांसं बलबृंहण -
त्वात् । मातुलुङ्गचुक्रकाणीति बीजपूरमीषदपनीतचुकं खण्डशः कृत्तं शर्क-
रायुक्तम् । हृद्यत्वात् । यथादेशसात्म्यमिति । यस्मिन्देशे न सात्म्यम् ।
तत्रेति भक्ष्याचुपयोगेऽनुरागख्यापनार्थो विधिः । विदश्य विदश्येति ।
उपलक्षणं चैतत् । इदं वृष्यमिदं वृष्यमित्यास्वाद्यास्वाद्य पानमपि तत्तदु-
पाहरेत् । हर्म्यतलस्थितयोर्वेति । यदि वासगृहस्थितयोरासने तापश्च-
न्द्रिका चोदिता तदा तदुपरि सौघस्थितयोरूर्ध्वयोश्चन्द्रिकासेवनार्थमास-
नम् । तत्सेवनं च तापापनयनार्थम् । यदि च तापेन न तत्र ताम्बूलग्रह-
णाद्यनुष्ठितं तदानीमिहानुष्ठेयम् । तत्रेति हर्म्यतले । भुक्तबिरसत्वात्का-
मस्य वृंहणानन्तरं कामजननार्थं तद्नुकूलाभिः कथाभिरनुवर्तेत । तदङ्कसं-
लीनायाश्चेति । आसीनस्य नायकस्याङ्के न्यस्तदेहाया नियतं गगनतले
दृष्टिः । तत्र चन्द्रमसं नयनानन्दजननम् । यस्याङ्गसङ्गान्नक्षत्रपङ्किव्यक्ती-
करणम् । प्रायशः स्त्रीणां नक्षत्रपङ्किष्वपरिचयात् । इयमरुन्धती भग-
बती सूक्ष्मा य एनां न पश्यति स षण्मासान्त्रियते । अयं ध्रुवादिवि -
स्वारः यद्दर्शनादिवसगतं पापमपैति । एते च सप्तर्षयः पया स्थिताः ।
इति संदर्शयेत् ।
द्वयमप्यधिकृत्याह-
तत्रैतद्भवति -
अवसानेऽपि च प्रीतिरुपचारैरुपस्कृता ।
सविस्रम्भकथायोगै रतिं जनयते पराम् ॥
१. 'अपरिक्रमातू'.