This page has not been fully proofread.

१० अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
शयनीयं प्रतिपद्यते । तत इति । उत्तरकाले शयनीयगताया नीवी-
विश्लेषणायोपक्रमेत् । इतः प्रभृति बाह्यं पुरुषोपसृतमिति ।
 
रैतावसानिकं रागमतिवाद्यासंस्तुतयोरिव सव्रीडयो: परस्परम-
पश्यतोः पृथक्पृथगाचारभूमिगमनम् । प्रतिनिवृत्त्य चात्रीडाय-
मानयोरुचितदेशोपविष्टयोस्ताम्बूलग्रहणमच्छीकृतं चन्दनमन्यद्वा-
नुलेपनं तस्या मात्रे स्वयमेव निवेशयेत् । सव्येन बाहुना चैनां
परिरभ्य चषकहस्तः सान्त्वयन्पाययेत् । जलानुपानं वो खण्ड-
खाद्यकमन्यद्वा प्रकृतिसात्म्ययुक्तमुभावप्युपयुञ्जीयाताम् । अच्छर-
सकयूषमम्लयवागूं भृष्टमांसोपदंशानि पानकानि चूतफलानि शु-
ष्कमांसं मातुलङ्गचुक्रकाणि सशर्कराणि च ययादेशसात्म्यं च ।
तत्र मधुरमिदं मृदु विशदमिति च विदश्य विदश्य तत्तदुपाहरेत् ।
हर्म्यतलस्थितयोर्वा चन्द्रिकासेवनार्थमासनम् । तत्रानुक्कुलाभिः
कथाभिरंनुवर्तेत । तदङ्कसंलीनायाचन्द्रमसं पश्यन्या नक्षत्रपति-
व्यक्तीकरणम् । अरुन्धतीध्रुवसर्षिमालादर्शनं च । इति रताव-
सानिकम् ॥
 
रतावसानिकमिति । वक्ष्यत इति शेषः । रागमतिवाह्य रतिमनुभूय ।
असंस्तुतयोरिवेति । अपरिचितयोर्यथा ब्रीडा तद्वत्सन्रीडयोः । अविनया-
चरणात् । एवं परस्परमपश्यतोः । तदवस्थदर्शनाद्वैराग्यमपि स्यादतः
पृथक्पृथगाचारभूमिगमनम् । नैकत्र शौचभूमौ शौचं कार्यमित्यर्थः । प्रति-
निवृत्त्याचारभूमेरनीडायमानयोः । एकान्तेनापरित्यक्तलज्जत्वात् । उचित-
देशस्तदानीं शयनीयमपास्यान्यदेशः । ताम्बूलस्य ग्रहणं भक्षणम् । त
दानी मुखस्या श्रीकृत्वाद्वैरस्याच्च । तत्र क्षीणप्रधानधातुत्वाच्छरीरस्य वृं-
हणं बाह्यमाभ्यन्तरं च । तत्र बाह्यं ग्रीष्मकाले अच्छीकृतं चन्दनमन्य-
द्वानुलेपनं कालौपयिकम् । स्वयमित्यनुरागख्यापनार्थम् । निवेशयेत् । पश्चा-
१. 'आवसानिकम्'. २. 'बहिर्भूमिगमनम्'; 'आचमनभूमिगमनम्'. ३. 'निदध्यात्'.
४. 'बाहुना परिष्वज्य'. ५. 'च'. ६. 'अच्छसरकम्'. ७. 'अनुवर्तनम्'. ८. 'आच-
मनभूमिगमनम् .