This page has not been fully proofread.

१७६
 
कामसूत्रम् ।
 
१४ आदितोऽध्यायः ]
 
कामिनोऽधिकृत्य प्रवृत्तत्वात् । प्रयोगानेकदेशिकान् । कस्यचिदेवार्थस्य
शिष्टैः प्रवर्तनात् ।
अयं च न्यायोऽन्यत्रापीत्याह----
 
रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके ।
 
कीर्तिता इति तल्कि स्याद्भक्षणीयं विचक्षणैः ॥
रसवीर्यविपाका इति । रसो मधुरादिः । वीर्ये सामर्थ्यम् । विपाक
उपयुक्तस्य परिणतौ मधुरादिः । श्वमांसस्यापि कीर्तिता इति व्यापित्वं
रसादीनाम् । भक्षणीयं विचक्षणैरित्येकदेशित्वम् ।
 
यद्येवं शिष्टपरिहृतत्वादिहोपदेशानर्थक्यमित्याह -
 
सन्त्येव पुरुषाः केचित्सन्ति देशास्तथाविधाः ।
सन्ति कालाथ येष्वेते योगा न स्युर्निरर्थकाः ॥
तादृशा इति सन्ति ये शुच्यशुचिषु निर्विकल्पाः । देशास्तथाविधा
लाटसिन्धुविषयादयः । काला औपरिष्टकसात्म्याः ख्यायत्ता यदाजी.
वितादयः (१) । योगा इति । मुखचुम्बनवद्विधेयम् ।
 
तस्माद्देशं च कालं च प्रयोगं शास्त्रमेव च ।
आत्मानं चापि संप्रेक्ष्य योगान्युञ्जीत वा न वा ॥
तस्मादिति । यतश्चैवं तस्मात्साधारणस्यासाधारणस्य वा यथावं दे-
शकालौ संवीक्ष्य, प्रयोगमुपायं च प्रयुज्यते नेति, शास्त्रमभिधायकमा-
त्मानं च, कतरन्मे युक्तमिति न वा प्रयुञ्जीतोभयमपि विद्वान् । खमा-
त्मानं संवीक्ष्य ।
 
अथवा नायं पुरुषादिनियम इत्याह --
 
अर्थस्यास्य रहस्यत्वाञ्चलत्वान्मनसस्तथा ।
कः कदा किं कुतः कुर्यादिति को ज्ञातुमर्हति ॥
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरण
औपरिष्टकं नवमोऽध्यायः ।
आदितचतुर्दशः ।
 
१. 'उपर्युकस्य'. २. 'त्रपायत्ता यदजीवितादयः'. ३. 'प्रयोगा इति'. ४. 'मुख-
चुम्बन च विधेयम्'.