This page has not been fully proofread.

९ अध्याय:]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१७५
 
मेध्यग्रहणात् । तौ विद्येते यस्मिन्काम इति । पिच्छादिषु द्रष्टव्यम् ।
ककनं वा काको लौल्यम् । 'कक लौल्ये' इति धातुपाठात् । तद्विद्यते
ययोः स्त्रीपुंसयोरितीनिप्रत्ययः । तौ लात्यादत्त इति ।
 
नरयोषितोश्च परिवर्तितदेहयोर्व्याख्यातः । तत्र साधारणासाधारण-
योरसाघारणं श्रेयः । ततोऽपि परिचारकविषयं हि खलसंसर्गादि परिशु-
द्धमिति दर्शयन्नाह-
C
 
तस्माद्भुणवतस्यक्त्वा चतुरांस्त्यागिनो नरान् ।
वेश्याः खलेषु रज्यन्ते दासहस्तिपकादिषु ॥
तस्मादिति । गुणवतो नायकगुणयुक्तान् । चतुरान् लोकयात्राकुश-
लान् । त्यागिनो दानशूरान् । वरानभिजनाद्युपेतान् । खलेषु नीचेषु ।
तानेव दर्शयति – दासहस्तिपकादिष्विति । रज्यन्त इति स्वभावाख्या-
नम् । अशिष्टधर्माचरणाद्वा । तेषु च रक्ता अपरचरितमपि प्रकाशयन्ति ।

न त्वेतद्ब्राह्मणो विद्वान्मन्त्री वा राजधूर्धरः ।
गृहीतमययो वापि कारयेदौपरिष्टकम् ॥
 
न त्वेतदिति । नैवं वेश्याभिः कारयेत् । ब्राह्मणो विद्वान् श्रुति-
स्मृत्यर्थतत्त्वज्ञः । मन्त्री राजधूर्धरः प्राधान्येन यो राज्यं संवाहयति ।
समासान्तो 'अ' अत्रानित्यत्वान्न भवति । अन्यो वा कश्चिद्गृहीतप्रत्ययो
लोके विश्वास्यः । तासु क्रियमाणं लोके लब्धसमाख्यानं गौरवं व्यावर्त -
यति । अतो मा भूद्वदनसंस्पर्शदोषः । असभ्यत्वदोषस्तु दुर्निवारो नेत-
रेषाम् । अविवक्षितत्वात् ।
 
ननु च व्यासस्तन्मुखचुम्बन द्विधिरिति शास्त्रेऽभिहितत्वात्साधारण-
स्यापि प्रयोगप्रसङ्ग इत्याह-
न शास्त्रमस्तीत्येतावत्प्रयोगे कारणं भवेत् ।
शास्त्रार्थान्व्यापिनो विद्यात्मयोगांस्त्वेकदेशिकान् ॥
न शास्त्रमिति । अभिधायकं शास्त्रमस्तीति नैतावत्प्रयोगे कारणम् ।
शास्त्रार्थान्व्यापिन इति । आलिङ्गनादेरर्थस्य रत्यौपयिकत्वात् सर्वानेव