2023-02-19 13:59:13 by ambuda-bot
This page has not been fully proofread.
कामसूत्रम् ।
१४ आदितोऽध्यायः]
इदमप्यसाधारणम् । एकस्यैव कर्तृत्वात् । द्वयोः कैर्तृत्वे साधारणम् ।
यदाह -
१७४
तथा नागरकाः केचिदन्योन्यस्य हितैषिणः ।
कुर्वन्ति रूढविश्वासाः परस्परपरिग्रहम् ॥
तथेति । नागरका ये नागरवृत्तावधिकृताः । केचिदिति योषाप्रायाः ।
हितैषिणः । विसृष्टिसुखकारित्वात् । रूढविश्वासा मैत्रया । परस्परपरिग्रह-
मिति । मम तावत्कुरु पश्चात्तवापि करिष्यामीति । युगपद्वा देहव्यत्या-
सेन रागात्कालमनपेक्षमाणाविति द्विविधम् । साधारणमित्युपलक्षणम् ।
स्त्रियोऽपि कुर्वन्ति । यथोक्तम् – 'अन्तःपुरगताः काश्चिदप्राप्तभाण्डका (?)
स्त्रियः । भगे ह्यन्योन्यविश्वासात्कुर्वन्ति मुखचापलम् ॥' इति ।
पुरुषाश्च तथा स्त्रीषु कर्मैतत्किल कुर्वते ।
व्यासस्तस्य चॅ विज्ञेयो मुखचुम्बनवद्विधिः ॥
तथा स्त्रीष्विति । तथा स्त्रियः पुरुषेषु तथा स्त्रीषु पुरुषाः परिचारका
नायका वा केचिद्भगे मुखेन कर्म कुर्वन्ति । किलेति संभावनायाम् । तस्य
चेति पुरुषकर्तृकस्य । व्यासः प्रकारः । मुखचुम्बनवदिति । कन्याचुम्बने
निमितादिना अन्यत्र समादिग्रहणेन यो विधिः सोऽस्यापि यथासंभवं
विज्ञेयः ।
तत्र परिचारके कर्तर्यसाधारणं नायकेऽपि तु साधारणमपि संभवति ।
तच्च युगपत्परिपाट्या वा । तत्र युगपत्कथमित्याह -
परिवर्तितदेहौ तु स्त्रीपुंसौ यत्परस्परम् ।
युगपत्संगँयुज्येते से कामः काकिलः स्मृतः ॥
परिवर्तितदेहाविति । पार्श्वसंपुढे पुमान्त्रियामूर्वोः शिरो निधत्ते स्त्री
च पुंस इति युगपत्संप्रयुज्येते । एकस्मिन्काले मुखेन परस्परोपस्थेन्द्रिय-
ग्रहणात् । काकिलः स्मृत इति । स्त्री पुमांश्च काक इव काकः । मुखेना-
१. 'एकस्यैक-'. २. 'कर्तृत्वात्'. ३. 'गूढविश्वासा: '. ४. 'प्रायः परपरिग्रहम्'.
५. 'तु'. ६. 'यत्परं रते'. ७. 'सप्रयुआाते'. ८. 'कोकिलः स किलोच्यते'; 'कामः स
किल काकिल:.