This page has not been fully proofread.

९ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१७३
 
पि । श्वपक्ष्युच्छिष्टं त्यजेदित्युक्तम् । मृगग्रहणफलपातकाले तु मुखस्य
शुचित्वान्मांसं फलं च शुचि । तथा रतिसंगमे रत्यर्थसंगमे स्त्रीमुख कृ-
तौपरिष्टकमन्यद्वा मेध्यम् । अन्यदा सर्वाशुचिनिधानत्वादिति । अस्मि-
न्स्मृत्यर्थे सर्वत्र चुम्बनप्रसङ्ग इति ।
स्वमतं दर्शयन्नाह -
 
शिष्टविप्रतिपत्तेः स्मृतिवाक्यस्य च सावकाशत्वाद्देशस्थितेरा-
त्मनश्च वृत्तिप्रत्ययानुरूपं भवर्तेत । इति वात्स्यायनः ॥
 
शिष्टविप्रतिपत्तेरिति । शिष्टाना प्राच्याहिच्छन्त्रिकनागरकाणां विप्रति-
पत्तिर्दृश्यते । यथोक्तम्– 'विरुद्धा च विगीता च दृष्टार्था दृष्टकारणा ।
स्मृतिर्न श्रुतिमूला स्याद्या चैषा संवनश्रुतिः ॥ इति । अत्रोत्तरमाह -
सावकाशत्वादिति । पत्नीमेवाधिकृत्येत्युक्तम् – 'स्त्रीमुखं रतिसंगमे' इति ।
यद्येवं वेश्यासु चुम्बनविकल्पानर्थक्यमित्यत्र पाक्षिकमभ्यनुज्ञानमाह-
देशस्थितेरिति । यो यस्मिन्देशे आचारस्तदनुरूपं प्रवर्तेत । देशाचारस्य
तत्रत्यानां प्रामाण्यात् । वृत्तिप्रत्ययानुरूपमिति । यथा सौमनस्यं यथा
च विश्वासस्तथा प्रवर्तेत । न शास्त्रेणैव केवलेनेति ।
 
इदं स्त्रीविषयमसाधारणमौपरिष्टकमुक्तम् । स्त्रिया एव कर्तृत्वात् । पुरु-
षविषयमाह -
भवन्ति चात्र श्लोकाः-
-
 
मैमृष्टकुण्डलाथापि युवानः परिचारकाः ।
केषांचिदेव कुर्वन्ति नराणामौपरिष्टकम् ॥
प्रमृष्टकुण्डला इति । उज्ज्वले कुण्डले येषामिति नेपथ्योपलक्षणम् ।
गृहीतनेपथ्या इत्यर्थः । युवानः प्राप्तरागत्वात्कर्तुं कुशलाश्चेटस्वरूपाः
परिचारकाः । नान्ये । दोषात् । यॆथोक्तम् – 'अजातश्मश्रवश्वेटा वि.
श्वास्या मुखकर्मणि । योज्या गृहीतनेपथ्या नेतरे श्मश्रुदोषतः ॥ इति ।
केषांचिदिति । ये मन्दरागा गतवयसोऽतिव्यायता ये च स्त्रीप्वलव्धवृत्तयः ।
 
१. 'सौरसेनमत'. २, 'प्रकृतिप्रत्यया- '. ३. 'सुमृष्ट-'. ४. 'केषाचिदवकुर्वन्ति';
'केषाचिदेतत्कुर्वन्ति'; 'केषाचिदेतत्कुर्वन्ति'. ५. 'यथा चोकम् .