This page has not been fully proofread.

१७२
 
निरपेक्षाः साकेता: संसृज्यन्ते ॥
 
साकेता आयोध्यकाः । ते निरपेक्षाः । वेश्यानां संप्रयोगे मुखकर्मणि
च शौचागौचविकल्पाभावात् ।
 
न तु स्वयमौपरिष्टकमा चरन्ति नागरकाः ॥
 
नागरका: पाटलिपुत्रकाः संप्रयुज्यन्ते वेश्यामिः न तु खयं तासां
मुखे जघनकर्म कुर्वन्ति । मा भूद्वदनसंसर्ग इति । प्रयोजितास्त्वाचरन्ति
बदनसंसर्गवर्जम् ।
 
कामसूत्रम् ।
 
• १४ आदितोऽध्यायः]
 
सर्वमविशङ्कया प्रयोजयन्ति सौरसेनाः ॥
 
-
 
सर्वमिति । संप्रयोगमौपरिष्टकं मुखकर्म च । अविशङ्केति । सर्वे शु-
चीत्यभिप्रायेणेत्यर्थः । सौरसेनाः कौशाम्ब्या दक्षिणतः कूले ये निवसन्ति ।
शङ्कायां हि खभार्यास्वप्यनाश्वस्त[ता]मेव दर्शयन्नाह -
एवं ह्याहुः – को हि योषितां शीलं शौचमाचारं चरित्रं प्रत्ययं
वचनं वा श्रद्धातुमर्हति । निसर्गादेव हि मलिनदृष्टयो भवन्त्येता
न परित्याज्याः । तस्मादासां स्मृतित एव शौचमन्वेष्टव्यम् । एवं
चाहु:-
'वत्सः मस्रवणे मेध्यः वा मृगग्रहणे शुचिः ।
 
शकुनिः फैलपाते तु स्त्रीमुखं रतिसंगमे ॥' इति ॥
एवं हीति । शीलं स्वभावं शौचमशुचिद्रव्यविश्लेषणं आचारं त्रयी-
कर्मानुष्ठानं चरितं कुलक्रमागतां स्थितिं प्रत्ययं विश्वासं वचनं वल्गितकं
कः श्रद्धातुमर्हति । परमार्थतः प्रत्येतुं नैवेत्यर्थः । कुत इत्याह - निसर्गा-
देवेति । आत्मलाभादेव नान्यस्मात् । मलिनदृष्टयो मलिनवुद्धयः । यल्लो-
कशास्त्रविरुद्धमप्याचरन्ति । न च परित्याज्याः । एवंभूता अपि पुरुषा-
र्थहेतुत्वात् । तेस्माद्रतविधौ स्मृतित एव शौचमन्वेष्टव्यम् । लोके स्मृतेः
प्रामाण्यात् । तां स्मृतिमाह — एवं हीति । आह स्मृतिकारः । मुखवर्जे

गौः सर्वतो मेध्येत्युक्तम् । प्रसवणकाले तु मुखं शुचि । उच्छिष्टं क्षीरम-
-
 
१. 'भवन्ति' इति पुस्तकान्तरे नास्ति. २. 'पातेषु'. ३. 'वचनवगितं वा.
४. 'प्रत्येक'. ५. 'तस्या व्रतविधौ'.