2023-02-19 13:59:13 by ambuda-bot
This page has not been fully proofread.
कामसूत्रम् ।
१४ आदितोऽध्यायः]
तथाभूतमेवेति निष्कोशितमेव । रागवशादिति । नायकस्य रागाधि-
क्यात् । तदर्धप्रविष्टकं निर्दयमत्यन्तम् । अवपीड्यावपीयेति जिहौष्ठपुटेन
द्विस्खिरवपीड्यावपीढ्य मुश्चेदभ्यन्तर एव । तदाग्रस्येव चूषितकम् ।
पुरुषाभिमायादेवं गिरेत्पीडयेच्चापरिसमाप्तेः । इति संगरः ॥
पुरुषामिप्रायादेवेति पुरुषाभिप्रायमेव बुद्धा प्रत्यासन्नास्य रतिरिति
गिरेत् । पीडयेश्चेति । जिह्वाव्यापारेण पीडयित्वा गिरेत् । ओष्ठव्यापा-
रेण पीडयेत् । आ समाप्तेरिति शुक्रविसृष्टिं यावत् । संगरः समन्ताद्गि-
रणात् ।
यथार्थ चात्र स्तननग्रहणनयोः प्रयोगः । इत्यौपरिष्टकम् ॥
यथार्थमिति । यथा राँगो निमितादिषु मृदुमध्याधिमात्रेण स्थितस्तथा
स्तननप्रहणनयोः प्रॆयोगः । आलिङ्गनादीनामत्रासंभवात् । इत्यौपरिष्टक-
मिति । एवं विपयखरूपफलप्रवृत्तिप्रकारैरौपरिष्टकमुक्तम्
देशसात्म्यवशादविषयेऽप्यस्य वृत्तिरिति दर्शयन्नाह -
।
कुलटाः स्खैरिण्यः परिचारिकाः संवाहिकाश्चाप्येतत्प्रयोजयन्ति ।
कुलटा इति । याः स्वं कुलमन्यद्वा सदृशमटन्त्यो भ्रष्टशीलास्ताः
कुलटाः । याः सदृशमसदृशं वा कुलमविचार्य स्वच्छन्दचारिण्यस्ताः खैरि-
ण्यः । या अन्यपूर्वा वा मुक्तप्रग्रहा नायकमुपचरन्ति ताः परिचारिकाः ।
याः संवाहनकर्मणा जीवन्ति ताः संवाहिकाः । एतत्प्रयोजयन्तीति ।
औपरिष्टकं कारयन्ति । न केवलं तृतीया प्रकृतिरित्यपिशव्दार्थः ।
तदेतत्तु न कार्यम् । समयविरोधादसभ्यत्वाच्च । पुनरपि ह्यासां
बदनसंसर्गे स्वयमेवाति प्रपद्येत । इत्याचार्याः ॥
तदेतत्तु न कार्यमिति प्रयोज्यमानमपि समयविरोधादिति । धर्मशास्त्रे
प्रतिषिद्धमेतत् । 'न मुखे मेहेत' इति । असभ्यत्वाच्चेति । सद्भिर्गर्हित-
त्वादसभ्यम् । तस्मादसभ्यत्वात् । प्रयोक्तुरप्यसभ्यत्वं दृष्ट एव दोषः ।
अयं चापर इत्याह — पुनरपि हीति । यदि हि कुलटादीनां मुखे जघन-
१७०
१. 'अवगिरेत्'. २. 'पिण्डवत्'. ३. 'स्तनप्रहणनयोगा'; 'प्रयोगा: '. ४. 'रागार्यो'.
५. 'प्रयोगा: '. ६. 'अनन्यपूर्वा'. ७. 'समवायविरोधात्'.