This page has not been fully proofread.

१ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
स्थाने । शास्त्रावयवानामित्यवयवभूतानाम् । एकदेशार्थत्वान्न फामागी-
भूताशेपवस्तुपरिज्ञानम् । वाम्रवीयस्येति । वाम्रव्यप्रोक्तस्य संपूर्णशा-
स्वस्याप्रयोजनमाह — तस्य संपूर्णस्यापि महदिति कृत्वा दुःखेनाध्यय-
नम् । तत्सप्तभिरधिकरणैः सप्त सहस्राणि ( सप्त शास्त्राणि) संक्षिप्य,
सर्वमर्थमल्पेन ग्रन्थेनेति संपूर्णतां स्वध्येयतां च दर्शयति । इदमिति बु-
द्धिस्थमाह । प्रणीतमिति समाप्तमाशंसते ।
 
तस्येत्यादिना स्वशास्त्रस्यार्थावयवानाचष्टे-
तस्यायं प्रकरणाधिकरणसमुद्देश:-
शास्त्रसंग्रहः । त्रिवर्गप्रतिपत्तिः । विद्यासमुद्देशः । नागरिकदृत्तम् ।
नायकसहायदूतीकर्मविमर्शः । इति साधारणं प्रथममधिकरणम् ।
अध्यायाः पञ्च । प्रकरणानि पञ्च ।
 
-
 
-
 
प्रमाणकालभावेभ्यो रतावस्थापनम् । प्रीतिविशेपाः । आलि-
जनविचाराः । चुम्वनविकल्पाः । नखरदनजातयः । दशनच्छेद्य-
विषय: । देश्या उपचाराः । संवेशनप्रकाराः । चित्ररतानि । म
हणनयोगाः । तयुक्ताच सीत्कृतोपक्रमाः । पुरुपायितम् । पुरुषो-
पटतानि । औपरिष्टकम् । रतारम्भावसानिकम् । रतविशेषाः ।
प्रणयकलहः । इति सांप्रयोगिकं द्वितीयमधिकरणम् । अध्याया
दश । प्रकरणानि सप्तदश ।
 
वरणविधानम् । संवन्धनिर्णयः । कन्याविसम्भणम् । चालाया
उपक्रमाः । इङ्गिताकारसूचनम् । एकपुरूपाभियोगः । प्रयोज्यस्यो-
पावर्तनम् । अभियोगतच कॅन्यायाः प्रतिपत्तिः । विवाहयोगः ।
इति कन्यासंप्रयुक्तकं तृतीयमधिकरणम् । अध्यायाः पञ्च । मक-
रणानि नव ।
 
एकचारिणीवृत्तम् । प्रवासचर्या । सपत्नीपु ज्येष्टादृत्तम् । क
निष्ठावृत्तम् । पुनर्भूवृत्तम् । दुर्भगावृत्तम् । आन्तः पुरिकम् । पुरु-
१. 'चालोपक्रमाः' पा०. २ 'कन्याप्रतिपत्तिः' पा०,