This page has not been fully proofread.

११८
 
कामसूत्रम् ।
 
१४ आदितोऽध्यायः]
 
------
 
तत्रापि नात्माभिप्रायेणेत्याह-
तेष्वेकैकमभ्युपगम्य
 
विरामाभीप्सां दर्शयेत् ॥
 
तेष्विति निमितादिषु एकैकं प्रथमात्मभृत्युपगम्य कृत्वा परित्यागेच्छां
 
दर्शयेत् ।
 
कौतुकजननार्थमभ्यर्थनयापरं
गते किं प्रतिपद्यत इत्याह-
प्रयोक्ष्यामीति नायकोऽप्येकस्मिन्नभ्युप-
इतरथं पूर्वस्मिन्नभ्युपगते तदुत्तरमेवापरं निर्दिशेत् । तस्मिन्नपि
सिद्धे तदुत्तरमिति ॥
 
इतरश्चेति नायकः । पूर्वसिन्निति निमिते । तदुत्तरमिति तस्मान्निमि-
तादनन्तरं पार्श्वतो दष्टम् । निर्दिशेदिदं च कुर्विति । तस्मिन्नपि पार्श्वतो
दष्टे क्रियया सिद्धे तदुत्तरं बहिःसंदंशमिति । अनेन क्रमेण सर्वे समु-
चयेन निर्दिशेत् । स्वरागपरिसमाप्त्यर्थं तस्माच्चाभिमानिकसुखजननार्थ
नायिकापि तथैव प्रयुञ्जीतेत्ययं चोदनायां विधिः । स्वयमुपक्रमे च स्वामि-
प्रायेणैव समुच्चये प्रयोज्यम् ।
 
S
 
तत्कर्म द्विविधम् – बाह्यम्, आभ्यन्तरं च । तत्र बाह्यमाह --
कॅरावलम्वितमोष्ठयोरुपरि विन्यस्तमपविध्य मुखं विधुनुयात् ।
तन्निमितम् ॥
 
करावलम्बितमिति अवनमनवारणार्थे करेण गृहीतमोष्ठयोरुपरि
विन्यस्तमग्रभागनापविध्येत्योष्ठेन वर्तुलीकृतेनावष्टभ्य मुखं खं वि
धुनुयात्कम्पयेत् । ओष्ठयोरुपरि विन्यस्तत्वान्निमितम् ।
 
हस्तेनाग्रमवच्छाद्य पार्श्वतो निर्दशनमोष्टाभ्यामवपीड्य भवत्वे-
तावदिति सान्त्वयेत् । तत्पार्श्वतो दष्टम् ॥
 
हस्तेनावच्छाद्य मुष्टिग्रहणेन ततः पार्श्वतो लिङ्गमोष्ठाभ्यामवपीड्य ।
निर्दशनमिति क्रियाविशेषणम् । देन्तवर्जमित्यर्थः । दन्तैस्तु ग्रहणमस्ति ।
 
१. 'प्रतिपाद्यते'; 'प्रतिपाद्यं ते. २. 'तु'. ३. 'तदनन्तरम्'. ४. 'तस्मिन्'.
५. 'क्रियासिद्धे'. ६. 'समुच्चयप्रयोज्यम्'. ७. 'करालम्चितमोष्ठोपरि'. ८. 'अवस्थाप्य'.
९. 'दशनवर्जम्'.