2023-02-19 13:59:13 by ambuda-bot
This page has not been fully proofread.
९ अध्याय:]
२ सांप्रयोगिकमधिकरणम् ।
१६७
पक्रमेत् । पुरुषेण च चोद्यमाना विवदेत् । कृच्छ्रण चाभ्युपगच्छेत् ॥
तुशब्दो विशेषणार्थः । रतिरौपरिष्टकं च तुल्यम् । वृत्तं तु पृथगिति ।
यदाह — प्रच्छन्नकामेति । आभिमानिकी प्रीतिः कामः स प्रच्छन्नो
यस्याः । सा पुरुषरूपिणीत्वात्पुरुषेण सहसा न संप्रयुज्यत इति लब्धु-
मिच्छन्ती । संवाहकभावमुपजीवेदिति । लोकेऽङ्गमर्दनकर्मणा जीवेदित्यर्थः ।
एवमपि विश्वासाभावात्कथं रतिरिति विश्वासनार्थमाह —तत्रेति । संवाहने
संविष्टस्य नायकस्योरू खगात्रैरपवृत्तपरिचयत्वादुपगूहमानेव मृद्रीयात् ।
एवं मृद्गती प्रसृतपरिचया चेदूरुमूलमपि संस्पृशेत् । सजघनमिति । लि-
ङ्गस्थानं त्यक्त्वा सह जघनस्य स्तोकेन भागेनोरुमूलमित्यर्थः । स्थिरलि-
ङ्गतामिति सजघनमागोरुमूलसंस्पर्शात्स्तब्धलिङ्गताम् । पाणिमन्थेनेत्यागो-
पालादिप्रतीतेन लिङ्गं घट्टयेत् । न यथाकथंचित् । चापलं कुत्सयन्ती-
वेति । ईदृशस्तु चपलो यदूरुस्पर्शमात्रेण स्तब्धलिङ्गोऽसीति निन्दयन्ती
स्वाभिप्रायख्यापनार्थं हसेत् । न तु रुष्यात् । कृतलक्षणेनापीति । स्तव्ध-
लित्वं रागस्य लक्षणम् । तत्कृतं यस्य नायकस्य । उपलब्धवैकृतेनेति
ज्ञातमुखचापलेन यदि न चोद्यते कुरु मुखचापलमिति तदा तस्मिन्स्वय-
मेव विना चोदनयोपक्रमेत् । पुरुषेण तूपलब्धवैकृतेनानुपलव्धवैकृतेन वा
चोद्यमाना नाहमेवंविधं कर्मेति सहसाङ्गीकारप्रतिषेधार्थी विवदेत् । तदेव
स्फुटयति- कृच्छ्रेण चेति । स्त्रीरूपिणी तु प्रकटकामत्वादचोदिताप्या-
दित एवोपक्रमेत् ।
तैस्य क्रियामेदाद्भेदमाह-
तत्र कर्माष्टविधं समुच्चयप्रयोज्यम् । निमितं पार्श्वतो दष्टं वहि:-
संदंशोऽन्तः संदंशत्रुम्वितकं परिसृष्टकमाम्रचूषितकं संगर इति ॥
तत्रेत्यौपरिष्टके । समुच्चयप्रयोज्यमिति । क्रमेण सर्वे समुच्चयेन
योज्यमित्यर्थः ।
१. 'पुरुपेण नु', 'पुरुपेणानु'. २. 'गृह्णीयात्'. ३. 'अज्ञात'. ४. 'हसन्ती
करणप्रतिषेधार्थम्'. ५. 'तस्या..