This page has not been fully proofread.

१४ आदितोऽध्यायः ]
 
तत्र पूर्वमधिकृत्याह-
तत्र स्त्रीरूपिणी स्त्रिया वेषमालापं लीलां भावं मृदुत्वं भीरुत्वं
मुग्घतामसहिष्णुतां व्रीडां चानुकुर्वीत ॥
 
तत्रेति । तयोः सम्यक्स्त्रीत्वख्यापनार्थं तावत्स्त्रीघर्मानुकरणम् । तत्र
वेषं केशपरिधानादिविन्यासेन, आलापं काकल्यनुगतम्, लीलां मन्थरादि-
गमनम्, भावं हावादिकम्, मृदुत्वमकार्कश्यम्, भीरुत्वं भयशीलताम्, मुग्ध-
तामृजुताम्, असहिष्णुतां प्रहणनवातातपाद्यक्षमताम्, ब्रीडां लज्जामनुकुवत।
तस्या बढ़ने जघनकर्म । तदोपरिष्टकमाचक्षते ॥
 
तस्या इति स्त्रीधर्माननुकुर्वत्या । मुखे जघनकर्मेति स्वरूपाख्यानम् ।
भगे लिङ्गेन यत्कर्म तन्मुखे क्रियमाणमौपरिष्टकम् । आचक्षत इति पूर्वा-
चार्यकृतेयं संज्ञा । उपरिष्टान्मुखे भवतीत्यण् । 'अव्ययानां भमात्रे टि-
लोपः' । पश्चात् 'संज्ञायां कन्' । 'अमेहक्वतसित्रेभ्य एव' इति परिगण-
नात्त्यन्न भवति ।
 
१६६
 
कामसूत्रम् ।
 
फलमाह-
सा ततो रतिमाभिमानिकीं वृत्तिं च लिप्सेत् । वेश्यावञ्चरितं
प्रकाशयेत् । इति स्त्रीरूपिणी ॥
 
सा तत इति । औपरिष्टकाद्वति प्रीतिमामिमानिकीं प्रागुक्तलक्षणाम् ।
वृत्ति जीविकाम् । भाटीलाभात् । चरितमिति वेश्याया वृत्तं वैशिके व-
क्ष्यति । तद्वेश्येव प्रकाशयन्ती गम्यैरभिगम्यमाना रतिं धृति वा प्राप्नोति ।
द्वितीयामधिकृत्याह-
पुरुषरूपिणी तु मच्छन्नकामा पुरुषं लिप्समाना संवाहकभाव-
सुपजीवेत् । संवाहने परिष्वजमानेत्र गात्रैरुरूनायकस्य भृगीयात् ।
भैसृतपरिचया चोरुमूलं सजघनमिति संस्पृशेत् । तत्र स्थिरलिङ्गता-
मुपलभ्य चास्य पाणिमन्येन परिघट्टयेत् । चापलमस्य कुत्सयन्तीव
हसेत् । कृतलक्षणेनाप्युपलव्धवैकृतेनापि न चोद्यत इति चेत्स्वयमु-
१. 'उपचरेत् । संवाहनेन च परिष्वजन्ती'. २. 'गृहीयात्'. ३. 'प्रसृतपरिचयोरु-
मूलं संस्कृती स्थिरलिङ्गतामत्रोपलभ्य'.