This page has not been fully proofread.

९ अध्याय:]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१६५
 
तत्सर्वमिति शीलं रतिप्रकारं च सर्वमुपलक्षयेत् । येनोत्तरकाले तथैव
सुरते समुपक्रमेत ।
 
3
 
तत्रापवादमाह-
न त्वेवर्तौ न भैसूतां न मृग न च गर्भिणीम् ।
न चातिव्यायतां नारी योजयेत्पुरुषायिते ॥
 
d
 
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे
पुरुषोपसृप्तानि पुरुषायितं चाष्टमोऽध्यायः ।
आदितस्त्रयोदशः ।
 
न त्वेवेति । ऋतौ न योजयेत् । गर्भाग्रहणभयात् । पुनरावर्तने च गर्म-
ग्रहणाद्दारकदारिके व्यस्तशीले स्याताम् । न प्रसूतामचिरप्रसूताम् ।
प्रदरकटिनिर्गमभयात् । न मृगीम् । वृषाश्वयोरवपाटिकाभयात् । न ग-
र्मिणीम् । गर्भस्रावमयात् । नातिव्यायतामतिस्थूलाम् । व्यापारयितुमश-
क्यत्वात् ॥ पुरुषायितं सप्तदशं प्रकरणम् । तदन्तर्गतानि पुरुषोपसृप्तान्य-
ष्टादशं प्रकरणम् ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाहनाविरहकातरेण
गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां साप्रयोगिके
द्वितीयेऽधिकरणे पुरुषायितं पुरुषोपटतानि चाष्टमोऽध्याय ।
 
नवमोऽध्यायः ।
 
आलिङ्गनादिपुरुषायितान्तं चतसृषु नायकासूक्तम्, 'तृतीयाप्रकृतिः
पञ्चमीत्येके' इत्युक्तम्, तद्विषयमौपरिष्टकमुच्यते द्विविधेत्यादिना ।
 
द्विविधा तृतीयाप्रकृतिः स्त्रीरूपिणी पुरुषरूपिणी च ॥
तृतीयाप्रकृतिर्नपुंसकम् । स्त्रीरूपिणी स्त्रीसंस्थाना । स्तनादियोगात् ।
पुरुषरूपिणी पुरुषसंस्थाना । इमञ्जुलोमादियोगात् । यद्वृत्तिमाश्रित्यौप-
रिष्टकमनयोस्तदुच्यते ।
 
१. 'सत्युपक्रमेण' २. 'प्रजाताम्'.