2023-02-19 13:59:11 by ambuda-bot
This page has not been fully proofread.
१६४
कामसूत्रम् । १३ आदितोऽध्यायः]
तत्रेति भ्रमरके । इतरो नायको यन्त्राविश्लेषार्थ अमरकसौकर्याय न
स्वजघनमूर्ध्वं क्षिपेत् ।
जयनमेव दोलायमानं सर्वतो भ्रामयेदिति भेहोलितकम् ॥
दोलायमानमिति पृष्ठतो नीत्वाग्रतो नयेत् । ऐकं पार्श्वे नीत्वा द्विती-
यमित्येवम् । तत्प्रेङ्खणात्प्रेङ्खोलितकम् । मण्डलेन तु अमितं मन्थनान्त-
र्भूतम् । तेषां पुरुषसात्म्याद्विकल्पेन च प्रयोग इत्यत्रापि योज्यम् ।
युक्तयत्रैव ललाटे ललाटं निघाय विश्राम्येत ॥
युक्तयत्रैव विश्राम्येत न विश्लिष्टयन्ना । रागस्यानुपशान्तत्वात् ।
ललाटे ललाटं निधायेति श्रमापनयनकारणम् ।
विश्रान्तायां च पुरुषस्य पुनरावर्तनम् । इति पुरुषायितानि ॥
पुनरागमनं पुनरुपरि गमनमित्यर्थः । रत्यधिगमा परिश्रान्तायां
पुनरावर्तनमित्यर्थोक्तम् । यथा रतपरिश्रान्तेन साहायकार्ये पुरुषायिते-
ऽनुमन्यते तथा तत्स्वभावप्रतिपत्त्यर्थमिति ।
तत्र नियोज्यादि दर्शयन्नाह -
भवन्ति चात्र श्लोकाः-
प्रच्छादितस्वभावापि गूढाकारापि कामिनी ।
वितृणोत्येव भावं स्वं रागादुपरिवर्तिनी ॥
प्रच्छादितस्वभावापीति लज्जया प्रच्छादितोऽभिप्रायो यया । कथ-
मित्याह — गूढाकारेति । अभिप्रायसूचकस्याकारस्य गोपितत्वात् । सा-
प्युपरिवर्तिनी कामयमाना स्वभावमात्मीयमभिप्रायं रागात्प्रकाशयति न
गृहितं शक्नोति । अतो नियोज्यम् ।
तदेव स्फुटयन्नाह -
ययाशीला भवेन्नारी यथा च रतिलालसा ।
तस्या एव विचेष्टाभिस्तत्सर्वमुपलक्षयेत् ॥
यथाशीलेति । यादृशः खभावो यस्याः । यथा च रतिलालसा येन
प्रकारेण रतौ जाततृष्णा । तस्या उपरिवर्तिन्या विचेष्टाभिस्तत्प्रकाराभिः ।
१. 'सर्वत्र'. २. 'कथम्'. ३. 'विश्रान्ताया: '.
४. 'च'. ५. 'जूट रागा'