2023-02-19 13:59:11 by ambuda-bot
This page has not been fully proofread.
८ अध्याय:]
२ सांप्रयोगिकमधिकरणम् ।
१६३
पाठ्या वृषभवच्छृङ्गाभ्यामवलिखेत् । सक्कृन्मिश्रितमिति । एकवारं प्रवे-
शितं लिङ्गमनिष्कमय्यानिष्कास्य बहिरभ्यन्तरमेव किंचिदाकृष्य चटक-
वत्तत्रैव लिङ्गं संघट्टयेत् । द्विस्त्रिर्वा । प्रकर्षेण चतुरिति । रागावसा-
निकमेतत् । विसृष्ट्यवस्थायामेव स्वभावत्वात् । व्याख्यातमिति केरणं
संपुटम् । तच्च व्याख्यातम् – 'ऋजुप्रसारितावुभयोश्चरणौ' इति । तत्र
लिङ्गमनिष्क्रमय्य जघनेन जघनमेवगूथ यत्संमिश्रणं तदपि संपुट-
मित्युक्तम् ।
-
तेषां स्त्रीसात्म्याद्विकल्पेन प्रयोगः ॥
तेषामिति उपसृप्तकादीनाम् । स्त्रीसात्म्यादिति येन यस्याः सात्म्यं
तेन तस्यां प्रयोगः । विकल्पेन मृदुमध्यौतिमात्रभेदेन । तत्र पुरुषोपसृतेपु
यद्वाचं नीवीविश्लेषणादिकं तद्वितीये मार्गे नायकर्केक्षाबन्धविश्लेषणादि
वाह्यं पुरुषायितम्, यच्चाभ्यन्तरमुपसृप्तं तन्मार्गद्वयेऽप्याभ्यन्तरं पुरुषायितं
द्रष्टव्यम् ।
पुरुषोपसतं प्रकरणमुक्त्वा विशेषाभिघित्सया पुनः पुरुषायितमाह -
पुरुषायिते तु संदंशो भ्रमरकः भेङ्गोलितमित्यधिकानि ॥
पुरुषायिते त्विति । अभ्यन्तरे पुरुषायिते प्रवर्तमानायास्त्रीण्यधिकानि ।
वीडवेन लिङ्गमवगृह्य निष्कर्षन्त्याः पीडयन्सा वा चिराव-
स्थानं संदेशः ॥
वाडवेनेति वराङ्गौष्ठसंदंशेन लिङ्गमवगृह्य निष्कर्षन्त्या अन्तः समाक-
र्षन्त्याः स्थानमवस्थितिः ।
युक्तयत्रा चक्रवद्धमेदिति भ्रमरक आभ्यासिकः ॥
युक्तयन्त्रेति । भगप्रवेशितलिङ्गा कुलालचक्रवत्कुश्चितचरणा नायकाने
हस्ताभ्यां शरीरावष्टम्भं कृत्वा भ्रमयेत् । अयमभ्यासाद्भवति ।
तत्रेतरः स्वजघनमुत्क्षिपेत् ॥
१. 'करणसंपुटम्'. २. 'अवगुह्य'; 'अवगृह्य'. ३ 'अधिमात्र- '. ४. 'करव्या-
वन्ध - . ५. 'भ्रमकरम्.' ६. 'वाडवकेन'. 'निष्कर्षयन्त्याः'. ८. 'चिरमवस्थानम्'.