This page has not been fully proofread.

कामसूत्रम् ।
 
१३ आदितोऽध्यायः]
 
ज्येष्ठया सह । गजहस्ताप्रसादृश्यात्तत्संज्ञं कृत्रिमं स्मृतम् ॥ एवं च क
रग्रहणं कृत्रिमसाधनोपलक्षणार्थम् । तेन कृत्रिमेणाभ्यन्तराण्युपसृप्तानि
ईष्टव्यानि ।
 
तान्याह-
उपसृतकं मन्थनं हुलोsवमर्दनं पीडितकं निर्घातो वराहघातो
दृपाघातश्चटकविलसित संपुट इति पुरुपोपटप्तानि । न्याय्यमृजुसं-
मिश्रणमुपसृप्तकम् । हस्तेन लिङ्गं सर्वतो भ्रामयेदिति मन्थनम् । नीची-
कृस जघनमुपरिष्टाद्धट्टयेदिति हुल: । तदेव विपरीतं सरभसमवमर्द -
नम् । लिङ्गेन समाहत्य पीडयंश्चिरमवतिष्ठेदिति पीडितकम् । सुदू-
रमुत्कृप्य वेगेन खजघनमैवपातयेदिति निर्घातः । एकत एव भू-
यिष्ठमवलिखेदिति वराहघातः । स एवोभयतः पर्यायेण नृपाघातः ।
सकृन्मिश्रितमनिष्क्रमय्य द्विखिश्चतुरिति घट्टयेदिति चटकविलसि-
तम् । रागावसानिकं व्याख्यातं करणं संपुटमिति ॥
 
लिङ्गेन संवाघस्य मिश्रणात्सर्वमेवोपसृप्तकम् । तत्र यहजु प्रगुणं
न्याय्यमागोपालाशनाप्रसिद्धं मिश्रणं तदुपसृप्तकमिति कन्प्रत्ययेन विशे-
पसंज्ञां दर्शयति । हस्तेन लिङ्गं गृहीत्वा संबाधाभ्यन्तरे सर्वतो मैथ्न-
निव श्रमयेत् । नीचीकृत्य जघनमिति स्त्रीकाटेमधः कृत्वा । उपरिष्टा-
द्विति । अभ्यन्तरस्योर्ध्वभागे भगं [व] हुलेनैव लिङ्गेनावघट्टयेत् । तदे-
वेति घट्टनम् । विपरीतमुच्चीकृत्य जघनमधस्तादिति विशेपश्चापरो यः ।
सरभसमिति । रभसेन गृह्णीयादित्यर्थः । अधोभागस्य कण्डूतिबहुलत्वात् ।
लिनेति । वेगादा मूलं प्रवेशमानेन समाहत्य पीडयन्भगमवतिष्ठेत । तिष्ठेत
चिरमिति यावन्तं कालं लिभोन्नमनावनमनानि कर्तुं समर्थः । सुदूरमिति ।
प्रवेशित लिङ्गमा निवन्धमाकृप्य वेगेन जघन एव निर्घातवत्क्षिपेत् ।
एकत एवेति । एकन्लिन्नेव पार्श्वे भूयिष्ठं वहन्वारान्वराहवद्दंष्ट्रयाव-
लिखेत् । स एवेति वराहस्य घातः । उभय इति । उभयपार्श्वयोः परि-
-
 
१. 'द्रष्टव्यानि । तान्याह' इति पुस्तकान्तरं नास्ति. २. 'मुकरम्'. ३. 'अवपी-
ये
 
' '
 
fl
 
Bewf