2023-02-19 13:59:11 by ambuda-bot
This page has not been fully proofread.
१६०
कामसूत्रम् ।
१३ आदितोऽध्यायः]
कायाः । विधिमाह—या प्रथमसंगता कन्या च तस्या ब्रीडा लज्जा नि-
मीलनं चाक्ष्णोः स्यात् । न त्वतिवि॒िसन्धायाः स्वैरिण्याश्चेति । एवं नी-
बीविस्रंसनस्पर्शनघट्टनावलम्बनैश्चतुर्भिर्वाद्यैरुपसृतैः शयनस्थां विश्वास्य
सांप्रयोगिकांश्चुम्बनादीन्प्रयुञ्जीत ।
आभ्यन्तराण्यभिघातुमाह -
रतिसंयोगे चैनां कथमनुरज्यत इति प्रवृत्या परीक्षेत ॥
रतिसंयोगे चेति रत्यर्थे यन्त्रसंयोगे सति । एनामिति बारुपसृप्तां
प्रवृत्त्या चेष्टया परीक्ष्य यथाकथंचिदाभ्यन्तरैरुपसपेंदित्यर्थः ।
तत्र प्रवृत्तिमाह -
-
युक्तयन्त्रेणोपसृप्यमाणा यतो दृष्टिमावर्तयेत्तत एवैनां पीडयेत् ।
एतद्रहस्यं युवतीनामिति सुवर्णनाभः ॥
युक्तयन्त्रेणेति । यत इति यत्र संवाधस्यान्तरं भागं लैक्षीकृत्य सा-
धनेनोपसृप्यमाणा तत्स्पर्शसुखादृष्टिमावर्तयेदृष्टिमण्डलं भ्रमयेत् तत ए-
वेति तमाश्रित्य पीडयेत् । साघनेनात्यर्थमुपसर्पेत् । तत्र हि पीढनाहूतं
रतिमधिगच्छति । एतद्रहस्यम् । स्त्रीभिरप्रकाश्यत्वात् । तथा हि रति-
प्राप्त्यर्थमन्यैः प्रकारान्तरमुक्तम् । शास्त्रकृतः सुवर्णनाभमतमभिमतम् ।
अप्रतिपिद्धत्वात् । अत्र च रतिवन्धनमेको बहव इति केषाचित्प्रदेशवि-
बादः । तत्रोपसृप्यमाणा यस्मिन्नेकस्मिन्नियतेऽनियते वा देशे स्पृष्टा दृष्टि-
मावर्तयेत्तस्मिन्नेव पीडयेदित्येक प्रकारः । बहुषु वा यस्मिन्नुपसृप्यमाणा
दृष्टिमावर्तयेत्तस्मिंस्तस्मिन्नेव पीडयेदिति द्वितीयः । तत्रापि यस्मिन्नत्यर्थं
दृष्टिमावर्तयेत्तस्मिन्नत्यर्थमेव पीडयेदिति बोद्धव्यम् । एतेन नाडीप्रदेशा
अप्यन्यतन्त्रोक्ता व्याख्याताः । तेषामनेनैव प्रकारेण ज्ञायमानत्वात् ।
१. 'स्वव्धाया: '. २. 'उपतेः', ३. 'चैपा'. ४. 'तच परीक्ष्य'. ५. 'तत्र
तत्रनाम्'; 'तत्रनाम्'; 'तत्र एर्वनाम् ६. 'कक्षीकृत्य'. ७. 'संवन्धनम्'. ८. 'केचित्'.
९. 'अन्यत्रोफा: '.