This page has not been fully proofread.

कामसूत्रम् । १ आदितोऽध्यायः ]
 
"
 
-
 
ततो वेश्याजनं परिचयपूर्वकं प्रत्यहमुपागम्य तथा तां विवेद यथा स ए-
वोपदेशग्रहणायास्य प्रार्थनीयोऽभूत् । ततोऽसौ वीरसेनाप्रमुखेण गणिका -
जनेनामिहितः, असाकं पुरुषरञ्जनमुपदिश्यतामिति । तन्नियोगात्पृथक्च-
कारेत्याम्नायः । अन्यस्तु श्रद्धामधिगम्य युक्तियुक्तमाह - यत्र गर्भया -
त्रायां दत्तकनामा तत्पदावधूतेन प्रेतिशयितेन त्र्यक्षेण शप्तः स्त्री बभूव ।
पुनब्ध कालेन लब्धवरः पुरुषोऽभूत् । तेनोमयज्ञेन पृथक्कृतमिति । यदि
बाभ्रव्योक्तमेव पृथक्कृतं किमपूर्व वसूत्रेषु दर्शितम् । येनोभयरसज्ञता क-
लप्यते । यदि चायमर्थः शास्त्रकृतोऽप्यभिमतः स्यात्तदानीं 'नियोगादुभ-
यरसज्ञो दत्तकः' इत्येवमभिदध्यात् ।
 
तत्प्रसङ्गाच्चारायणः साधारणमधिकरणं पृथक्मोवाच । सुवर्ण-
नाभः सांगयोगिकम् । घोटकमुखः कन्यासंप्रयुक्तकम् । गोनदींयो
भार्याधिकारिकम् । गोणिका पुत्रः पारदारिकम् । कुचुमार औप-
निषदिकमिति । एवं बहुभिराचार्यैस्तच्छास्त्रं खण्डश: प्रणीतमुत्स-
नकल्पमभूत् । तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानामेकदे-
शखात्, महदिति च बाभ्रवीयस्य दुरध्येयवात्, संक्षिप्य सर्वमर्थ-
मल्पेन ग्रन्थेन कामसूत्रमिदं प्रणीतम् ॥
 
तत्प्रसङ्गाच्चारायणः साधारणमधिकरणं प्रोवाच । सुवर्णनाभः सांप्रयो-
गिकम् । कन्यासंप्रयुक्तकं घोटकमुखः । गोनर्दीयो भार्याधिकारिकम् ।
गोणिकापुत्रः पारदारिकम् । कुचुमार औपनिषदिकमिति । दत्तकेन वै-
शिकं पृथक्कृतमित्येतत्प्रसकाच्चारायणादयोऽपि पृथक्प्रकर्षेणोचुः । प्रक-
र्षश्च ग्रन्थेषु स्वमतप्रकाशनम् । तच्च स्थानस्थानेषु स्वशास्त्रे दर्शयिष्यति ।
एवमित्यादिना स्वशास्त्रस्य प्रयोजनमाह - तच्छास्रं बाभ्रव्योक्तम् ।
खण्डश इति खण्डं खण्डं कृत्वा । उत्सन्नकल्पमीषदुत्सन्नमिव । क्वचि-
दृश्यमानत्वात् । नन्द्यादिप्रणीतमुत्सन्नमेवेत्यर्थोक्तम् । तत्रेति शास्त्रप्र-
१. 'इत्ययमभिप्रायः' पा०. २. 'प्रतिसेवितयक्षेण शप्तः' पा०. ३. 'अभवत्' पा०.
४. 'सर्वमल्पेन ग्रन्थेन कामसूत्रमिद प्रणीतवानिति वात्स्यायनः' पा०.