2023-02-19 13:59:11 by ambuda-bot
This page has not been fully proofread.
८ अध्यायः]
२ सांप्रयोगिकमधिकरणम् ।
११७
नायकस्येति । संतताभ्यासादिति रतस्य पौनःपुन्येनानुष्ठानात् । परि-
श्रमं सर्वान्तिकं समम् । रागस्य चानुपशममशान्तिमुपलभ्य । तत्राप्य-
नुमता । तेनेति नायकेन । अननुज्ञाता हि योषिद्विसदृशमाचरन्ती नि-
स्त्रपैव स्यात् । तमधोऽवंपात्य नायकमंघस्तात्कृत्वां । एवं हि पुरुषवदा-
चरितम् । तेन साहाय्यं सहायकर्म प्रतिपद्यते । कार्यस्यानिष्पन्नत्वात् ।
खाभिप्रायाद्वेति । अनंनुमंतापि तेन जातविसम्भा । विकल्पं पुरुषायि-
तमेदं योजयितुमर्थिनी । तच्छीलत्वात् । नायककुतूहलाद्वेति । नायक-
स्यात्र कौतुकमस्तीति ज्ञात्वा वा तेनाननुमता परिश्रान्तस्यापि दद्यादित्येव ।
L
तत्र युक्तयन्त्रेणैवेवरेणोत्थाप्यमाना तमधः पातयेत् । एवं च
रतमविच्छिन्नरस तथा प्रवृत्तमेव स्यात् । इत्येकोऽयं मार्गः । पुन-
रारम्भेणादित एवोपक्रमेत् । इति द्वितीयः ॥
तत्रेति । पुरुषायिते द्विविधः क्रमः । तत्रायं प्रथमो युक्तयन्त्रेणैवा-
परित्यक्तशल्यसंयोगेनैव इतरेण नायकेन यसस्थितेनासीनेन चोत्थात्य-
माना बाहुपाशसंदानिता सत्युपरि क्रियमाणा तं नायकमवपातयेदिति ।
एवं सति रतमविच्छिन्नरसं तथा प्रवृत्तमेव स्यात् । यन्त्रं हि विश्लेप्य
पुनः संधाने रतमपूर्वमेव स्यात् । न पूर्वप्रकारप्रवृत्तम् । यथाप्रवृत्तश्चात्र
रागो विच्छिद्यते । तस्य चाकमाद्विच्छेदे न सौमनस्यमित्यत्र कामिनः
प्रमाणम् । अयं मार्गः श्रमवृद्धौ रागस्यानुपशमे द्रष्टव्यः । स्वाभिप्रा-
यादिषु पुनरारम्भेणेति । यदा रतस्य पुनरारम्भस्तदा तेनारम्भेण पुरुषव-
दादावेवोपक्रमेत् । प्रवृत्ते द्वितीयो मार्गः । नापरस्तृतीयः । यदन्तरा
यन्त्रं विश्लेष्य प्रयोक्तव्यम् ।
पुरुषायितं द्विविधम्, बाह्यमाभ्यन्तरं च । तत्र प्रथममधिकृत्याह-
सा प्रकीर्यमाणकेशकुसुमा वासविच्छिन्नहासिनी वक्त्रसंसर्गा-
थे स्तनाभ्यामुरः पीडयन्ती पुनः पुनः शिरो नामयन्ती याचेष्टाः
पूर्वमंसौ दर्शितवांस्ता एव प्रतिकुर्वीत । पातिता प्रतिपातयामीति
१. 'रस भवति'. २. 'एको मार्ग:'. ३. 'उपकामेत्'. ४. 'शत्रस्थितेन'. ५. 'अयै
प्रदर्शितवान्.