This page has not been fully proofread.

१९६
 
कामसूत्रम् । १३ आदितोऽध्यायः ]
 
तस्मादिति । मृदुत्वं चण्डत्वमिति । मन्दवेगतां चण्डवेगतां चेत्यर्थः ।
चलं प्राणः । आत्मनश्च मृदुत्वचण्डत्वे इति योज्यम् । तथेति मृद्वादिम -
कारेण । प्रयुञ्जीत प्रयोगान् । शास्त्र वित् । अन्यथा शास्त्रज्ञेतरयोः को भेदः
स्यात् । वक्ष्यति च—'अस्य शास्त्रस्य तत्त्वज्ञो न स रागात्प्रवर्तते' इति ।
मृद्रादिभेदेन प्रयोगयोजने सर्वे सर्वदा सर्वास स्त्रीपु स्युरिति चेदाह---
न सर्वदा न सर्वासु प्रयोगा: सांप्रयोगिकाः ।
स्थाने देशे च काले च योग एपां विधीयते ॥
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे
प्रहणनप्रयोगास्तयुक्ताञ्च सीत्कृतक्रमाः सप्तमोऽध्यायः ।
आदितो द्वादशः ।
 
न सर्वदेति । तत्र स्थाने प्रयोगो यथा – अपहस्तस्य स्तनान्तरे
प्रसृतस्य शिरसीत्यादि । देश इति । प्रयोगविषय इत्यर्थः । यथा मा-
लव्यां प्रहणनस्य आभीर्यामौपरिष्टकस्येत्यादि । युक्तयन्त्रायामपहस्तस्य
उत्सगोपविष्टायां मुष्टिरित्यादि कालप्रयोगः ॥ प्रहणनप्रयोगाः पञ्चदर्श
प्रकरणम् । तद्युक्ताश्च तदन्तर्गताः सीत्कृतक्रमाः षोडशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धामनाविरहकातरेण
गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणेकत्रकृतसूत्रभाष्यायां साप्रयोगिके द्वितीयेऽघि-
करणे अहणनयोगाः सीत्कृतक्रमाय सप्तमोऽध्यायः ।
 
अष्टमोऽध्यायः ।
 
एवं प्रहणनादिव्यापारेण परिश्रान्ते नायके नायिका पुरुषवदाचरे -
दिति पुरुषायितम्, तदुपयोगित्वाञ्च तदन्तर्गतानि पुरुषोपैसृप्तानीति प्रक-
रणद्वयमत्राध्यान ।
 
तत्र कारणान्याह-
नायकत्य संतताभ्यासात्परिश्रममुपलभ्य रागस्य चानुपशमम्,
अनुमता तेन तमघोऽर्वेपात्य पुरूपायितेन साहाय्यं दद्यात् । स्वाभि-
प्रायाः विकल्पयोज़ेनार्थिनी नायककुतूहलाद्वा ॥
 
१. 'सीत्कृतोपक्रमा: '. २. 'उवपस्थानीति'. ३. 'रताभ्यास-; 'सतताभ्यास'.
४. 'तमधः पाल्य'; तनवपाल'. ५. 'विकल्पप्रयोजनार्थी'; 'शिल्पप्रयोजनार्थी'.