2023-02-19 13:59:10 by ambuda-bot
This page has not been fully proofread.
७ अध्यायः] -
२ सांप्रयोगिकमधिकरणम् ।
१५५
प्रवृत्तिकारणे ज्ञानमपरं कारणम् । ततश्च विमृश्यकारिणो गणना शास्त्र-
परिग्रहश्योमयमेव भवति । तस्मादुमयोरपि प्रवृत्तौ रागः कारणम् ।
तत्रैकस्य ज्ञानपरिष्कृतोऽन्यस्य तद्विकल इति विशेषः ।
यदा चानयोरतिप्रवृद्धो रागस्तदा तद्वशाददृष्टश्रुता अपि प्रयोगा
भवन्तीति दर्शयन्नाह -
स्वप्नेष्वपि न दृश्यन्ते ते भावास्ते च विभ्रमाः ।
सुरतव्यवहारेषु ये स्युस्तत्क्षणकल्पिताः ॥
स्वप्मेष्वपीति । असंभाव्यवस्तुप्रकाशनयोग्येष्वपि । भावा अपि प्रिया-
विभ्रमचेष्टितानि । सुरतव्यवहारेषु परस्परचुम्बनाभिगमनादिव्यापारेषु
तत्क्षणनिर्मितास्तत्कालकल्पिता । न शास्त्रिता इत्यर्थः ।
तत्रैकस्य ज्ञानपरिष्कृतत्वाद्रतिजनन एवोत्पद्यन्ते अन्यस्य ज्ञानवै-
कल्यादत्ययावहा अपीति । तस्मादयं ज्ञानविकलोऽतिप्रवृद्धादागात्प्रवर्त-
मानोऽत्ययं न पश्यतीति दृष्टान्तेन दर्शयन्नाह -
यथा हि पञ्चमीं धारामास्थाय तुरगः पथि ।
स्थाणुं श्वभ्रं दरीं वापि वेगान्धो न समीक्षते ॥
एवं सुरतसंमर्दे रागान्धौ कामिनावपि ।
चण्डवेगौ प्रवर्तेते समीक्षेते न चात्ययम् ॥
यथा हीति । अश्वस्य विक्रमो वैल्गितमुपकण्ठमुपजवो जवश्चेति पञ्च-
धारागतयस्तुरगशिक्षायामुक्ताः । तत्र पञ्चर्मी जवाख्यां प्रकृष्टामास्थाय ।
स्थित्वेत्यर्थः । तत्रस्थो हि वायुगतिर्भवत्यश्वः । श्वञं पौरुषं गर्तम् । दरीं
देवनिर्मिताम् । एवमिति दान्तिकयोजनम् । सुरतसंमर्दे सुसंकुले ।
कामिनौ स्त्रीपुंसौ । 'पुमान्स्त्रिया' इत्येकशेषः ।
यस्माज्ज्ञानवैकल्यादयुक्तं दृश्यते तस्माज्ज्ञानप्रधानेन भवितव्यमिति
दर्शयन्नाह -
तस्मान्मृदुत्वं चण्डत्वं युवत्या वलमेव च ।
आत्मनश्च वलं ज्ञात्वा तथा युञ्जीत शास्त्रवित् ॥
१. 'चुम्बनालिङ्गनादि . २. 'सप्राप्य'. ३. 'रागातौं'. ४. 'वलित-'. ५. 'ततः';
'योगान्'.